वांछित मन्त्र चुनें

त्वम॑ग्ने प्रथ॒मोऽअङ्गि॑रा॒ऽऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑। तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥१२ ॥

मन्त्र उच्चारण
पद पाठ

त्वम्। अ॒ग्ने॒। प्र॒थ॒मः। अङ्गि॑राः। ऋषिः॑। दे॒वः। दे॒वाना॑म्। अ॒भ॒वः॒। शि॒वः। सखा॑ ॥ तव॑। व्र॒ते। क॒वयः॑। वि॒द्म॒नाप॑स॒ इति॑ विद्म॒नाऽअ॑पसः। अजा॑यन्त। म॒रुतः॑। भ्राज॑दृष्टय॒ इति॒ भ्राज॑त्ऽऋष्टयः ॥१२ ॥

यजुर्वेद » अध्याय:34» मन्त्र:12


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब मनुष्यों को ईश्वराज्ञा पालनी चाहिए, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर वा विद्वान् ! जिस कारण (त्वम्) आप (प्रथमः) प्रख्यात (अङ्गिराः) अवयवों के सारभूत रस के तुल्य वा जीवात्माओं को सुख देनेवाले (देवानाम्) विद्वानों के बीच (देवः) उत्तम गुण, कर्म, स्वभावयुक्त (शिवः) कल्याणकारी (सखा) मित्र (ऋषिः) ज्ञानी (अभवः) होवें, इससे (तव) आपके (व्रते) स्वभाव वा नियम में (विद्मनापसः) प्रसिद्ध कर्मोंवाले (भ्राजदृष्टयः) सुन्दर हथियारों से युक्त (कवयः) बुद्धिमान् (मरुतः) मनुष्य (अजायन्त) प्रकट होते हैं ॥१२ ॥
भावार्थभाषाः - यदि मनुष्य सबके मित्र विद्वान् जन और सबके हितैषी परमात्मा को मित्र मान, विज्ञान के निमित्त कर्मों को कर प्रकाशित आत्मावाले हों तो वे विद्वान् होकर परमेश्वर की आज्ञा में वर्त्त सकें ॥१२ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ जनैरीश्वराज्ञा पाल्येत्याह ॥

अन्वय:

(त्वम्) (अग्ने) परमेश्वर विद्वन् वा (प्रथमः) प्रख्यातः (अङ्गिराः) अङ्गानां रस इव वर्त्तमानो यद्वाऽड्गिभ्यो जीवात्मभ्यो सुखं राति ददाति सः (ऋषिः) ज्ञाता (देवः) दिव्यगुणकर्मस्वभावः (देवानाम्) विदुषाम् (अभवः) भवेः (शिवः) कल्याणकारी (सखा) मित्रः (तव) (व्रते) शीले नियमे वा (कवयः) मेधाविनः (विद्मनापसः) विद्मनानि विदितान्यपांसि कर्माणि येषान्ते (अजायन्त) जायन्ते (मरुतः) मनुष्याः (भ्राजदृष्टयः) भ्राजन्त्यः शोभमाना ऋष्टय आयुधानि येषान्ते ॥१२ ॥

पदार्थान्वयभाषाः - हे अग्ने ! यतस्त्वं प्रथमोऽङ्गिरा देवानां देवः शिवः सखा ऋषिरभवस्तस्मात् तव व्रते विद्मनापसो भ्राजदृष्टयः कवयो मरुतोऽजायन्त ॥१२ ॥
भावार्थभाषाः - यदि मनुष्याः सर्वसुहृदं विद्वांसं सर्वमित्रं परमात्मानञ्च सखायं मत्वा विज्ञाननिमित्तानि कर्माणि कृत्वा प्रकाशितात्मनो भवेयुस्तर्हि ते विद्वांसो भूत्वा परमेश्वरस्याज्ञायां वर्त्तितुं शक्नुयुः ॥१२ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जर माणसे सर्वांचा मित्र, विद्वानांचा व सर्वांचा हितकर्ता असलेल्या परमेश्वराला मित्र मानून विज्ञानयुक्त कर्माने आत्मा प्रकाशयुक्त करतील तर ते विद्वान बनून परमेश्वराच्या आज्ञेत वागू शकतील.