होता॑ यक्ष॒द् व्यच॑स्वतीः सुप्राय॒णाऽऋ॑ता॒वृधो॒ द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑र्ब्र॒ह्माण॒मिन्द्रं॑ वयो॒धस॑म्। प॒ङ्क्तिं छन्द॑ऽइ॒हेन्द्रि॒यं तु॑र्य॒वाहं॒ गां वयो॒ दध॒द् व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥२८ ॥
होता॑। य॒क्ष॒त्। व्यच॑स्वतीः। सु॒प्रा॒य॒णाः। सु॒प्रा॒य॒ना इति॑ सुऽप्राय॒नाः। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इति॑ ऋत॒ऽवृधः॑। द्वारः॑। दे॒वीः। हि॒र॒ण्ययी॑। ब्र॒ह्माण॑म्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। प॒ङ्क्तिम्। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। तु॒र्य॒वाह॒मिति॑ तुर्य॒ऽवाह॑म्। गाम्। वयः॑। दध॑त्। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑ ॥२८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(होता) (यक्षत्) (व्यचस्वतीः) गमनाऽवकाशयुक्ताः (सुप्रायणाः) सुष्ठु प्रायणं प्रकर्षेण गमनं यासु ताः (ऋतावृधः) या ऋतं यथायोग्यं सत्यं वर्द्धयन्ति ताः (द्वारः) द्वाराणि (देवीः) दिव्यगुणाः (हिरण्ययीः) सुवर्णादिभिरनुलिप्ताः (ब्रह्माणम्) चतुर्वेदविदम् (इन्द्रम्) विद्यैश्वर्यम् (वयोधसम्) कमनीयानां विद्याबोधादीनां धातारम् (पङ्क्तिम्) (छन्दः) (इह) अस्मिन् संसारे (इन्द्रियम्) धनम् (तुर्यवाहम्) यस्तुर्यं चतुर्गुणं भारं वहति तम् (गाम्) (वयः) गमनम् (दधत्) (व्यन्तु) प्राप्नुवन्तु (आज्यस्य) प्राप्तव्यस्य घृतादिसम्बन्धिपदार्थस्य (होतः) (यज) ॥२८ ॥