अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पो᳕ऽस्यूर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुवन॑पतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ॥२॥
अदि॑त्यै। व्युन्द॑न॒मिति॑। वि॒ऽउन्द॑नम्। अ॒सि॒। विष्णोः॑। स्तु॒पः। अ॒सि॒। ऊर्ण॑म्रदस॒मित्यूर्ण॑ऽम्रदसम्। त्वा॒। स्तृ॒णा॒मि॒। स्वा॒स॒स्थामिति॑ सुऽआ॒स॒स्थाम्। दे॒वेभ्यः॑। भुवप॑तय॒ इति॒ भुव॑ऽपतये। स्वाहा॑। भुव॑नपतय॒ इति॒ भुव॑नऽपतये। स्वाहा॑। भू॒ताना॑म्। पत॑ये स्वाहा॑ ॥२॥
हिन्दी - स्वामी दयानन्द सरस्वती
इस प्रकार किया हुआ यज्ञ क्या सिद्ध करनेवाला होता है, सो अगले मन्त्र में उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
एवं कृतो यज्ञः किंहेतुको भवतीत्युपदिश्यते ॥
(अदित्यै) पृथिव्याः। अत्र ‘चतुर्थ्यर्थे बहुलं छन्दसि’ (अष्टा०२.३.६२) इति षष्ठ्यर्थे चतुर्थी (व्युन्दनम्) विविधानामोषध्यादीनामुन्दनं क्लेदनं येन तत् (असि) भवति। अत्र सर्वत्र व्यत्ययः (विष्णोः) यज्ञस्य (स्तुपः) शिखा। यज्ञो वै विष्णुस्तस्येयमेव शिखा स्तुपः (शत०१.३.३.५) (असि) अस्ति (ऊर्णम्रदसम्) ऊर्णानि धान्याच्छादनानि तुषाणि म्रदयति येन तं पाषाणमयम् (त्वा) तम् (स्तृणामि) आच्छादयामि (स्वासस्थाम्) सुष्ठु आसाः प्रक्षिप्तास्तिष्ठन्ति यस्यां सा वेदिस्ताम्। अत्र घञर्थे कविधानम् (अष्टा०३.३.५८) इति वार्त्तिकेन कः प्रत्ययः (देवेभ्यः) विद्वद्भ्यो दिव्यसुखेभ्यो वा (भुवपतये) भवन्त्युत्पद्यन्ते भूतानि यस्मिन् संसारे तस्य पतिस्तस्मै जगदीश्वराय। आहवनीयाख्याग्नये वा। अत्र बाहुलकाद् भूधातोरौणादिकः कः प्रत्ययः (स्वाहा) सत्यभाषणयुक्ता वाक्। स्वाहेति वाङ्नामसु पठितम् (निघं०१.११) स्वाहाशब्दस्यार्थं निरुक्तकार एवं समाचष्टे। स्वाहाकृतयः स्वाहेत्येतत् सु आहेति वा, स्वा वागाहेति, वा स्वं प्राहेति वा, स्वाहुतं हविर्जुहोतीति वा (निरु०८.२०) यत् शोभनं वचनं सत्यकथनं स्वपदार्थान् प्रति ममत्ववचो मन्त्रोच्चारणेन हवनं चेति स्वाहाशब्दार्था विज्ञेयाः (भुवनपतये) भुवनानां सर्वेषां लोकानां पतिः। पालक ईश्वरः। पालनहेतुर्भौतिको वा तस्मै (स्वाहा) उक्तार्थः (भूतानां पतये) भूतान्युत्पन्नानि यावन्ति वस्तूनि सन्ति तेषां यः पतिः स्वामीश्वर ऐश्वर्य्यहेतुर्भौतिको वा तस्मै (स्वाहा) उक्तार्थः। अयं मन्त्रः (शत०१.३.३.४-२०) व्याख्यातः ॥२॥