यऽइ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत् पि॒ता नः॑। सऽआ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒२ऽआवि॑वेश ॥१७ ॥
यः। इ॒मा। विश्वा॑। भुव॑नानि। जुह्व॑त्। ऋषिः॑। होता॑। नि। असी॑दत्। पि॒ता। नः॒। सः। आ॒शिषेत्या॒ऽशिषा॑। द्रवि॑णम्। इ॒च्छमा॑नः। प्र॒थ॒म॒च्छदिति॑ प्रथम॒ऽछत्। अव॑रान्। आ। वि॒वे॒श॒ ॥१७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब ईश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथेश्वरः कीदृशोऽस्तीत्युपदिश्यते ॥
(यः) (इमा) इमानि (विश्वा) विश्वानि (भुवनानि) (जुह्वत्) आददत् (ऋषिः) ज्ञाता (होता) दाताऽऽदाता वा (नि) (असीदत्) सीदति (पिता) पालकः (नः) अस्माकम् (सः) (आशिषा) आशीर्वादेन (द्रविणम्) धनम् (इच्छमानः) अत्र व्यत्ययेनात्मनेपदम् (प्रथमच्छत्) यः प्रथमान् विस्तृतान् छादयति (अवरान्) अर्वाचीनानाकाशादीन् (आ) समन्तात् (विवेश) विष्टोऽस्ति ॥१७ ॥