विशिष्ट खोज

स्थापित परिणाम

  • ऋग्वेद में कृष्णा के 27 संदर्भ मिले
  • सामवेद में कृष्णा के 6 संदर्भ मिले
  • अथर्ववेद में कृष्णा के 12 संदर्भ मिले
कृष्णा के 45 सन्दर्भ मिले Page 1 of 3

Rigveda/1/35/4

देवता: सविता ऋषि: हिरण्यस्तूप आङ्गिरसः छन्द: विराट्त्रिष्टुप् स्वर: धैवतः

अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥


Rigveda/1/62/9

देवता: इन्द्र: ऋषि: नोधा गौतमः छन्द: निचृदार्षीत्रिष्टुप् स्वर: धैवतः

सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः। आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥


Rigveda/1/113/2

देवता: उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि ऋषि: कुत्स आङ्गिरसः छन्द: स्वराट्पङ्क्ति स्वर: पञ्चमः

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः। समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥


Rigveda/1/113/14

देवता: उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि ऋषि: कुत्स आङ्गिरसः छन्द: निचृत्पङ्क्ति स्वर: पञ्चमः

व्य१ञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः। प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥


Rigveda/1/123/1

देवता: उषाः ऋषि: दीर्घतमसः पुत्रः कक्षीवान् छन्द: विराट्त्रिष्टुप् स्वर: धैवतः

पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः। कृष्णादुदस्थादर्या३ विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥


Rigveda/1/123/9

देवता: उषाः ऋषि: दीर्घतमसः पुत्रः कक्षीवान् छन्द: विराट्त्रिष्टुप् स्वर: धैवतः

जानत्यह्न: प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची। ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥


Rigveda/1/130/8

देवता: इन्द्र: ऋषि: परुच्छेपो दैवोदासिः छन्द: अष्टिः स्वर: मध्यमः

इन्द्र: समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु। मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत्। दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥


Rigveda/1/141/8

देवता: अग्निः ऋषि: दीर्घतमा औचथ्यः छन्द: भुरिक्त्रिष्टुप् स्वर: धैवतः

रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते। आदस्य ते कृष्णासो दक्षि सूरय: शूरस्येव त्वेषथादीषते वय: ॥


Rigveda/2/4/6

देवता: अग्निः ऋषि: सोमाहुतिर्भार्गवः छन्द: आर्षीपङ्क्ति स्वर: पञ्चमः

आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत्। कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः॥


Rigveda/3/15/3

देवता: अग्निः ऋषि: उत्कीलः कात्यः छन्द: भुरिक्पङ्क्ति स्वर: पञ्चमः

त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि। वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ॥


Rigveda/3/31/21

देवता: इन्द्र: ऋषि: गाथिनो विश्वामित्रः, ऐषीरथीः कुशिको वा छन्द: त्रिष्टुप् स्वर: धैवतः

अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात्। प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः॥


Rigveda/4/3/9

देवता: अग्निः ऋषि: वामदेवो गौतमः छन्द: विराट्त्रिष्टुप् स्वर: धैवतः

ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने। कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥


Rigveda/4/16/13

देवता: इन्द्र: ऋषि: वामदेवो गौतमः छन्द: स्वराट्पङ्क्ति स्वर: पञ्चमः

त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः। पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥१३॥


Rigveda/6/10/4

देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: आर्षीपङ्क्ति स्वर: पञ्चमः

आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा। अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥४॥


Rigveda/6/47/21

देवता: इन्द्र: ऋषि: गर्गः छन्द: निचृत्त्रिष्टुप् स्वर: धैवतः

दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः। अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥२१॥


Rigveda/6/60/10

देवता: इन्द्राग्नी ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत्। कृष्णा कृणोति जिह्वया ॥१०॥


Rigveda/8/41/10

देवता: वरुणः ऋषि: नाभाकः काण्वः छन्द: निचृज्जगती स्वर: निषादः

यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता । स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥


Rigveda/8/43/6

देवता: अग्निः ऋषि: विरूप आङ्गिरसः छन्द: गायत्री स्वर: षड्जः

कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । अग्निर्यद्रोधति क्षमि ॥


Rigveda/8/93/13

देवता: इन्द्र: ऋषि: सुकक्षः छन्द: निचृद्गायत्री स्वर: षड्जः

त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पय: ॥


Rigveda/9/41/1

देवता: पवमानः सोमः ऋषि: मेध्यातिथिः छन्द: गायत्री स्वर: षड्जः

प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्त: कृष्णामप त्वचम् ॥