वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सुतंभर आत्रेयः छन्द: जगती स्वर: निषादः काण्ड:

त्वा꣡म꣢ग्ने꣣ अ꣡ङ्गि꣢रसो꣣ गु꣡हा꣢ हि꣣त꣡मन्व꣢꣯विन्दञ्छिश्रिया꣣णं꣡ वने꣢꣯वने । स꣡ जा꣢यसे म꣣थ्य꣡मा꣢नः꣣ स꣡हो꣢ म꣣ह꣡त्त्वामा꣢꣯हुः꣣ स꣡ह꣢सस्पु꣣त्र꣡म꣢ङ्गिरः ॥९०८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥९०८॥

मन्त्र उच्चारण
पद पाठ

त्वाम् । अ꣣ग्ने । अ꣡ङ्गि꣢꣯रसः । गु꣡हा꣢꣯ । हि꣣त꣢म् । अ꣡नु꣢꣯ । अ꣣विन्दन् । शिश्रियाण꣢म् । व꣡ने꣢꣯वने । व꣡ने꣢꣯ । व꣣ने । सः꣢ । जा꣣यसे । मध्य꣡मा꣢नः । स꣡हः꣢꣯ । म꣣ह꣢त् । त्वाम् । आ꣣हुः । स꣡ह꣢꣯सः । पु꣣त्र꣢म् । पु꣣त् । त्र꣢म् । अ꣢ङ्गिरः ॥९०८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 908 | (कौथोम) 3 » 1 » 6 » 2 | (रानायाणीय) 5 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की प्राप्ति का विषय है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक परमेश्वर ! (गुहा हितम्) गुहा में निहित अर्थात् गुह्य, (वने वने) प्रत्येक किरण में वा प्रत्येक जीव में (शिश्रियाणम्) विद्यमान (त्वाम्) आपको (अङ्गिरसः) तपस्वी प्राणायामाभ्यासी जन(अन्वविन्दन्) प्राप्त कर लेते हैं। (सः) वह आप (मथ्यमानः) ध्यान किये जाते हुए (महत् सहः) उपासक के महान् बल (जायसे) हो जाते हो। हे (अङ्गिरः) प्राणों के समान प्रिय ! (त्वाम्) आपको (सहसः) बल का (पुत्रम्) पुतला (आहुः) कहते हैं ॥२॥

भावार्थभाषाः -

परमेश्वर प्रत्येक पदार्थ में विद्यमान होता हुआ भी चर्मचक्षु से दिखायी न देने के कारण गुह्य है। तप और ध्यान से ही वह प्राप्त होने योग्य है। ध्यानी लोग उसके महान् बल और तेज का साक्षात्कार करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मप्राप्तिविषयमाह।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रणीः परमेश्वर ! (गुहा हितम्) गुहायां निहितम्, गुह्यम्, (वने वने) किरणे किरणे। [वनमिति रश्मिनाम। निघं० १।५।] जीवे जीवे वा२ (शिश्रियाणम्)श्रयन्तम्। [श्रिञ् सेवायाम्, शानच्।] (त्वाम् अङ्गिरसः) तपस्विनः प्राणायामाभ्यासिनो जनाः (अन्वविन्दन्) प्राप्नुवन्ति। (सः) असौ त्वम् (मथ्यमानः) ध्यायमानः (महत् सहः) उपासकस्य महद् बलम् (जायसे) भवसि। हे (अङ्गिरः) प्राणवत् प्रिय ! (त्वाम्) भवन्तम् (सहसः) बलस्य (पुत्रम्) पुत्तलम् (आहुः) कथयन्ति ॥२॥३

भावार्थभाषाः -

परमेश्वरः पदार्थे पदार्थे विद्यमानोऽपि चर्मचक्षुषाऽदृश्यत्वाद् गुह्यो वर्तते। तपसा ध्यानेनैव च स लभ्योऽस्ति। ध्यानिनो जनास्तस्य महद् बलं तेजश्च साक्षात्कुर्वन्ति ॥२॥

टिप्पणी: १. ऋ० ५।११।६, य० १५।२८। २. वने वने जङ्गले जङ्गलेऽग्नाविव जीवे जीवे इति ऋ० ५।११।६ भाष्ये द०। ३. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये परमात्मपक्षे यजुर्भाष्ये च बाह्याभ्यन्तराग्निपक्षे व्याख्यातः।