वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अकृष्टा माषाः छन्द: जगती स्वर: निषादः काण्ड:

प्र꣢ त꣣ आ꣡श्वि꣢नीः पवमान धे꣣न꣡वो꣢ दि꣣व्या꣡ अ꣢सृग्र꣣न्प꣡य꣢सा꣣ ध꣡री꣢मणि । प्रा꣡न्तरि꣢꣯क्षा꣣त्स्था꣡वि꣢रीस्ते असृक्षत꣣ ये꣡ त्वा꣢ मृ꣣ज꣡न्त्यृ꣢षिषाण वे꣣ध꣡सः꣢ ॥८८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥८८६॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । ते꣣ । आ꣡श्वि꣢꣯नीः । प꣣वमान । धेन꣡वः꣢ । दि꣣व्याः꣢ । अ꣣सृग्रन् । प꣡य꣢꣯सा । धरी꣡म꣢꣯णि । प्र । अ꣣न्त꣡रि꣢क्षात् । स्था꣡वि꣢꣯रीः । स्था । वि꣣रीः । ते । असृक्षत । ये꣢ । त्वा꣣ । मृज꣡न्ति꣢ । ऋ꣣षिषाण । ऋषि । सान । वेध꣡सः꣢ ॥८८६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 886 | (कौथोम) 3 » 1 » 1 » 1 | (रानायाणीय) 5 » 1 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमेश्वर तथा उसके उपासक का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रकर्ता परमात्मन् ! (ते) आपकी (आश्विनीः) व्याप्त, (दिव्याः) आकाश में स्थित, (धेनवः) तृप्ति प्रदान करनेवाली मेघरूप गौएँ (पयसा) वर्षाजलरूप दूध से (धरीमणि) भूमि पर (प्र असृग्रन्) छूटकर आती हैं। वैसे ही, हे (ऋषिषाण) ऋषियों से सेवनीय परमेश ! (ये) जो (वेधसः) स्तुतियों के विधाता आपके उपासक (त्वा) आपको (मृजन्ति) स्तुतियों से अलङ्कृत करते हैं (ते) वे (अन्तरिक्षात्) हृदयाकाश से (स्थाविरीः) समृद्ध भक्तिधाराओं को (प्र असृक्षत) आपके प्रति प्रकृष्ट रूप से छोड़ते हैं ॥१॥

भावार्थभाषाः -

जैसे जगदीश्वर वर्षा-धाराओं को हमारे प्रति छोड़ता है, वैसे ही उसके प्रति हमें भक्ति-धाराएँ छोड़नी चाहिएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमेश्वरस्य तदुपासकस्य च विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रकर्तः परमात्मन् ! (ते) तव (आश्विनीः२) व्याप्ताः, (दिव्याः) दिवि आकाशे भवाः (धेनवः) प्रीणयित्र्यो मेघरूपाः गावः (पयसा) वृष्टिजलरूपेण दुग्धेन (धरीमणि३) धरण्याम् (प्र असृग्रन्) प्र गच्छन्ति। तथैव, हे (ऋषिषाण) ऋषिभिः संभजनीय परमेश ! [ऋषिभिः सन्यते सेव्यते इति ऋषिषाणः, षण सम्भक्तौ।] ये (वेधसः) स्तुतीनां विधातारः तवोपासकाः (त्वा) त्वाम् (मृजन्ति) स्तुतिभिः अलङ्कुर्वन्ति। [मृजू शौचालङ्कारयोः चुरादिः, विकरणव्यत्ययः।] (ते) उपासकाः (अन्तरिक्षात्) हृदयाकाशात् (स्थाविरीः४) समृद्धाः भक्तिधाराः (प्र असृक्षत) त्वां प्रति प्रकर्षेण विसृजन्ति ॥१॥

भावार्थभाषाः -

यथा जगदीश्वरो वृष्टिधारा अस्मान् प्रति विसृजति तथैवास्माभिस्तं प्रति भक्तिधारा विस्रष्टव्याः ॥१॥

टिप्पणी: १. ऋ० ९।८६।४, प्रथमे पादे ‘धेनवो’ इत्यत्र ‘धी॒जुवो॑’ इति पाठः। ‘प्रान्तर्ऋष॑यः॒ स्थावि॑रीरसृक्षत॒’ इति च तृतीयः पादः। २. आश्विनीः व्याप्ताः, अशू व्याप्तौ, तस्मादौणादिको विनिः, ततोऽण्, व्यत्ययेनाद्युदात्तः—इति सा०। ३. धृञ् धारणे धातोः ‘हृभृधृसृस्तृशृभ्य ईमनिन्’ उ० ४।१४९ इति ईमनिन् प्रत्ययः। सूत्रे क्वचित्तु ‘इमनिच्’ इत्यपि पाठो दृश्यते। ४. स्थाविरीः स्थविराः धाराः—इति सा०। स्थिराः स्थूला वा स्थविरीर्वा गावः रश्मयः—इति वि०।