वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡चः꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥८७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥८७॥
वि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣣षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥८७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में परमात्मा-रूप अतिथि की अर्चना का वर्णन है।
हे मनुष्यो ! (वः) तुम (विशः विशः) प्रत्येक मनुष्य के (अतिथिम्) अतिथि के समान पूज्य, (पुरुप्रियम्) बहुत प्रिय परमेश्वर रूप अग्नि की (वाजयन्तः) अर्चना करो। (दुर्यम्) घर के समान शरणभूत (अग्निम्) उस अग्रनायक जगदीश्वर को (वः) तुम्हारा (वचः) स्तुति-वचन, प्राप्त हो। मैं भी उस जगदीश्वर की (शूषस्य मन्मभिः) बल और सुख के स्तोत्रों से अर्थात् सबल और सुखजनक स्तोत्रों से (स्तुषे) स्तुति करता हूँ ॥७॥
सबके हृदय में अतिथि-रूप से विराजमान भक्तवत्सल परमेश्वर का सब मनुष्यों को स्तुतिवचनों से अभिनन्दन करना चाहिए ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ परमात्मातिथेरर्चनमाह।
हे जनाः ! (वः२) यूयम् (विशः विशः) मनुष्यस्य मनुष्यस्य। विश इति मनुष्यनाम। निघं० २।३। (अतिथिम्) अतिथिम् इव इति लुप्तोपमम्, अतिथिवत् पूज्यम् इत्यर्थः, (पुरुप्रियम्) अतिशयस्नेहास्पदम् अग्निं परमेश्वरम् (वाजयन्तः) अर्चन्तः, भवत इति शेषः। वाजयति अर्चतिकर्मा। निघं० ३।१४। (दुर्यम्) गृहम्, गृहवत् शरणभूतम्। दुर्याः इति गृहनामसु पठितम्। निघं० ३।४। (अग्निम्) तम् अग्रनायकं परमेश्वरम् (वः) युष्माकम् (वचः) स्तुतिवचनं, प्राप्नोतु इति शेषः। अहमपि तं जगदीश्वरम् (शूषस्य मन्मभिः३) बलस्य सुखस्य वा स्तोत्रैः, सबलैः सुखजनकैर्वा स्तोत्रैरित्यर्थः। शूषम् इति बलनाम सुखनाम च। निघं० २।९, ३।६। मन्मभिः मननीयैः स्तोमैः इति निरुक्तम् १०।५। (स्तुषे) स्तौमि। ष्टुञ् धातोर्लेटि उत्तमैकवचने रूपम् ॥७॥
सर्वेषां हृदयेऽतिथिरूपेण विराजमानो भक्तवत्सलः परमेश्वरः सर्वैरेव जनैः स्तुतिवचोभिरभिनन्दनीयः ॥७॥
                  