वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: मेध्यातिथिः काण्वः छन्द: बृहती स्वर: मध्यमः काण्ड:

क꣡ण्वे꣢भिर्धृष्ण꣣वा꣢ धृ꣣ष꣡द्वाजं꣢꣯ दर्षि सह꣣स्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपं मघवन्विचर्षणे म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥८६६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥८६६॥

मन्त्र उच्चारण
पद पाठ

क꣡ण्वे꣢꣯भिः । धृ꣣ष्णो । आ꣢ । धृ꣣ष꣢त् । वा꣡ज꣢꣯म् । द꣣र्षि । सहस्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपम् । पि꣣श꣡ङ्ग꣢ । रू꣣पम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गो꣡म꣢꣯न्तम् । ई꣣महे ॥८६६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 866 | (कौथोम) 2 » 2 » 12 » 3 | (रानायाणीय) 4 » 4 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और आचार्य से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (धृष्णो) अविद्या, दोष आदि को दूर करने के स्वभाववाले परमात्मन् वा आचार्य ! (कण्वेभिः) मेधावी विद्वानों के द्वारा (धृषन्) अविद्या, दीनता आदि को दूर करते हुए आप (सहस्रिणम्) संख्या में हजार (वाजम्) विद्या आदि धन को (आ दर्षि) प्रदान करते हो। हे (मघवन्) ऐश्वर्यशालिन्, (विचर्षणे) सर्वद्रष्टा परमात्मन् वा शास्त्रद्रष्टा आचार्य ! (पिशङ्गरूपम्) पीले रंगवाले वा तेजस्वी रूपवाले, (गोमन्तम) उत्तम वाणी, गाय, भूमि आदि से युक्त (वाजम्) सुवर्णरूप वा ब्रह्मचर्यरूप धन को, हम (मक्षु) शीघ्र ही (ईमहे) आपसे चाहते हैं ॥३॥

भावार्थभाषाः -

परमात्मा और गुरु सुयोग्य उपासकों और शिष्यों को सब सोना, मणि, मोती, गाय आदि तथा विद्या, ब्रह्मचर्य, सदाचार आदि विशाल ऐश्वर्य प्राप्त कराते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानमाचार्यं च प्रार्थयते।

पदार्थान्वयभाषाः -

हे (धृष्णो) अविद्यादोषादिधर्षणशील परमात्मन् आचार्य वा ! (कण्वेभिः) मेधाविभिर्विद्वद्भिः (धृषन्) अविद्यादैन्यादिकं धर्षयन् त्वम् (सहस्रिणम्) सहस्रसंख्याकम् (वाजम्) विद्यादिधनम् (आ दर्षि) प्रयच्छ। [आङ्पूर्वाद  विदारणे क्र्यादिः। ततो लोटि सिपि ‘बहुलं छन्दसि’ अ० २।४।७३ इति विकरणस्य लुक्।] हे (मघवन्) ऐश्वर्यशालिन् (विचर्षणे२) सर्वद्रष्टः परमात्मन् शास्त्रद्रष्टः आचार्य वा ! (पिशङ्गरूपम्) पिङ्गलवर्णं तेजोमयं वा, (गोमन्तम्) उत्तमवाग्धेनुपृथिव्यादियुक्तं च (वाजम्) सुवर्णाख्यं ब्रह्मचर्याख्यं वा धनम्, वयम् (मक्षु) सद्य एव (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥

भावार्थभाषाः -

परमात्मा गुरुश्च सुयोग्यानुपासकान् शिष्यांश्च प्रति सर्वं सुवर्णमणिमुक्ताधेन्वादिकं विद्याब्रह्मचर्यसद्वृत्तादिकं च विपुलमैश्वर्यं प्रापयतः ॥३॥

टिप्पणी: १. ऋ० ८।३३।३, अथ० २०।५२।३, ५७।१६। २. विचर्षणे विविधाश्चर्षणयः पुरुषा यस्य स विचर्षणिः अथवा विश्वस्य द्रष्टा—इति वि०।