सो꣢मं꣣ गा꣡वो꣢ धे꣣न꣡वो꣢ वावशा꣣नाः꣢꣫ सोमं꣣ वि꣡प्रा꣢ म꣣ति꣡भिः꣢ पृ꣣च्छ꣡मा꣢नाः । सो꣡मः꣢ सु꣣त꣡ ऋ꣢च्यते पू꣣य꣡मा꣢नः꣣ सो꣡मे꣢ अ꣣र्का꣢स्त्रि꣣ष्टु꣢भः꣣ सं꣡ न꣢वन्ते ॥८६०॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥८६०॥
सो꣡म꣢꣯म् । गा꣡वः꣢꣯ । धे꣣न꣡वः꣢ । वा꣣वशानाः꣢ । सो꣡म꣢꣯म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । मति꣡भिः꣢ । पृ꣡च्छ꣡मा꣢नाः । सो꣡मः꣢꣯ । सु꣣तः꣢ । ऋ꣣च्यते । पूय꣡मा꣢नः । सो꣡मे꣢꣯ । अ꣣र्काः꣢ । त्रि꣡ष्टु꣡भः꣢ । त्रि꣣ । स्तु꣡भः꣢꣯ । सम् । न꣣वन्ते ॥८६०॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में परमकवि परमात्मा का वर्णन है।
(धेनवः) तृप्ति प्रदान करनेवाली (गावः) गौएँ या वाणियाँ (सोमम्) परमकवि परमात्मा की ही (वावशानाः) कामना करती हुई (यन्ति) जा रही हैं। (विप्राः) ज्ञानी लोग (मतिभिः) स्तोत्रों से (सोमम्) परमकवि परमात्मा को ही (पृच्छमानाः) पूछते हुए जा रहे हैं। (सुतः) ध्यान किया हुआ (सोमः) परमात्मा (पूयमानः) हृदय में प्रेरित होता हुआ (ऋच्यते) सहृदयों से स्तुति पाता है। (सोमे) उस परमात्मा में (त्रिष्टुभः) त्रिष्टुप् छन्दवाले अथवा तीन-तीन पादों से थमे हुए गायत्री छन्दवाले (अर्काः) मन्त्र (सं नवन्ते) सङ्गत हुए-हुए हैं, अर्थात् उसी का प्रतिपादन कर रहे हैं ॥२॥ इस मन्त्र के पूर्वार्द्ध में असम्बन्ध में सम्बन्ध रूप अतिशयोक्ति अलङ्कार है ॥२॥
जगत् में सब प्राणी और सब अचेतन पदार्थ अपने-अपने कर्म में लगे हुए मानो अपने रचयिता परमात्मा को ही खोज रहे हैं ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ परमकविं परमात्मानं वर्णयति।
(धेनवः) प्रीणयित्र्यः (गावः) क्षीरिण्यः वाचो वा (सोमम्) परमकविं परमात्मानमेव (वावशानाः) कामयमानाः, यन्ति इति पूर्वमन्त्रादाकृष्यते। (विप्राः) ज्ञानिनः (मतिभिः) स्तोत्रैः (सोमम्) परमकविं परमात्मानमेव (पृच्छमानाः) पृच्छन्तः यन्ति। (सुतः) ध्यातः (सोमः) परमात्मा (पूयमानः) हृदये प्रेर्यमाणः। [पवते गतिकर्मा। निघं० २।१४।] (ऋच्यते) सहृदयैः स्तूयते। [ऋच स्तुतौ तुदादेः कर्मणि रूपम्।] (सोमे) तस्मिन् परमात्मनि (त्रिष्टुभः) त्रिष्टुप्छन्दस्काः त्रिपाद्गायत्रीछन्दस्काः वा (अर्काः) मन्त्राः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५।२४।] (सं नवन्ते) संगताः (सन्ति), तमेव प्रतिपादयन्तीत्यर्थः। [नवते गतिकर्मा निघं० २।१४] ॥२॥ अत्र पूर्वार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥२॥
जगति सर्वे प्राणिनः सर्वे चाचेतनाः पदार्थाः स्वस्वकर्मणि संलग्नाः स्वरचयितारं परमात्मानमिवान्विष्यन्ति ॥२॥