वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡त꣢स्त्वा र꣣यि꣢र꣣꣬भ्य꣢꣯य꣣द्रा꣡जा꣢नꣳ सुक्रतो दि꣣वः꣢ । सु꣣पर्णो꣡ अ꣢व्य꣣थी꣡ भ꣢रत् ॥८३८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अतस्त्वा रयिरभ्ययद्राजानꣳ सुक्रतो दिवः । सुपर्णो अव्यथी भरत् ॥८३८॥

मन्त्र उच्चारण
पद पाठ

अ꣡तः꣢꣯ । त्वा꣣ । रयिः꣢ । अ꣣भि꣢ । अ꣢यत् । रा꣡जा꣢꣯नम् । सु꣣क्रतो । सु । क्रतो । दिवः꣢ । सु꣣प꣢र्णः । सु꣣ । पर्णः꣢ । अ꣣व्यथी꣢ । अ꣣ । व्यथी꣢ । भ꣣रत् ॥८३८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 838 | (कौथोम) 2 » 2 » 3 » 3 | (रानायाणीय) 4 » 1 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और चन्द्रमा का विषय वर्णित है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (सुक्रतो) शुभ कर्म करनेवाले मनुष्य ! (राजानं त्वा) यश से जगमगानेवाले तुझे (दिवः) देदीप्यमान (अतः) इस पवमान सोम अर्थात् पवित्रकर्त्ता जगदुत्पादक परमेश्वर से ही (रयिः) ऐश्वर्य (अभ्ययत्) प्राप्त हुआ है, जिस ऐश्वर्य को (सुपर्णः) शुभ पालनकर्त्ता, (अव्यथी) किसी प्रकार की व्यथा से रहित उस परमेश्वर ने तेरे लिए (भरत्) दिया है ॥ द्वितीय—चन्द्रमा के पक्ष में। हे पवमान सोम अर्थात् गति करनेवाले चन्द्रमा ! (राजानं त्वा) दीप्तिमान् तुझे (अतः दिवः) इस सूर्यलोक से ही (रयिः) प्रकाशरूप धन (अभ्ययत्) मिलता है, जिसे (सुपर्णः) सुन्दर किरणोंवाला (अव्यथी) अविचल स्थिर सूर्य (भरत्) तेरे अन्दर लाता है ॥३॥ यहाँ श्लेषालङ्कार है ॥३॥

भावार्थभाषाः -

जैसे मनुष्य जगदीश्वर से सब प्रकार का धन प्राप्त करता है, वैसे ही चन्द्रमा सूर्य से दीप्ति पाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मविषयं चन्द्रविषयं चाह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे (सुक्रतो) सुकर्मन् मनुष्य ! (राजानं त्वा) राजमानं त्वाम् (दिवः) द्योतमानात् (अत्तः) अस्मात् पवमानात् सोमात् पवित्रकर्तुः जगदुत्पादकात् परमेश्वरादेव (रयिः) ऐश्वर्यम् (अभ्ययत्) प्राप्तमस्ति, यं रयिं (सुपर्णः) सुपालनकर्त्ता (अव्यथी) व्यथारहितः स परमेश्वरः, तुभ्यम् (भरत्) भृतवान्, दत्तवान् अस्ति। [अभ्ययत्, भरत् इति क्रमेण अभि पूर्वात् अयतेः, डुभृञ् धारणपोषणयोः इत्यस्माच्च लङि तिपि रूपम्, आडडागमाभावश्छान्दसः] ॥ द्वितीयः—चन्द्रपरः। हे पवमान सोम गतिमन् चन्द्र ! (राजानं त्वा) दीप्तिमन्तं त्वाम् (अतः दिवः) अस्मात् सूर्यलोकादेव (रयिः) प्रकाशरूपं धनम् (अभ्ययत्) आगच्छति, यम् (सुपर्णः) शोभनकिरणः (अव्यथी) अविचलः स्थिरः सूर्यः। [व्यथ भयसंचलनयोः। न व्यथते संचलति, किन्तु आकाशे स्थिरो भवतीति अव्यथी सूर्यः।] (भरत्) त्वयि आहरति। [हृञ् हरणे, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः] ॥३॥ अत्र श्लेषालङ्कारः ॥३॥

भावार्थभाषाः -

यथा मनुष्यो जगदीश्वरात् सर्वविधं धनं तथा चन्द्रमाः सूर्याद् दीप्तिम् प्राप्नोति ॥३॥

टिप्पणी: १. ऋ० ९।४८।३, ‘र॒यिम॒भि राजा॑नं’, ‘अ॑व्य॒थिर्भ॑रत्’ इति पाठः।