वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ ते꣢ व꣣त्सो꣡ मनो꣢꣯ यमत्पर꣣मा꣡च्चि꣢त्स꣣ध꣡स्था꣢त् । अ꣢ग्ने꣣ त्वां꣢ का꣢मये गि꣣रा꣢ ॥८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वां कामये गिरा ॥८॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । ते꣣ । वत्सः꣢ । म꣡नः꣢꣯ । य꣣मत् । परमा꣢त् । चि꣣त् । सध꣡स्था꣢त् । स꣣ध꣢ । स्था꣣त् । अ꣡ग्ने꣢꣯ । त्वाम् । का꣣मये । गिरा꣢ ॥८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 8 | (कौथोम) 1 » 1 » 1 » 8 | (रानायाणीय) 1 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

मैं तुझ परमात्मा में अपना प्रेम बाँधता हूँ, यह कहते हैं।

पदार्थान्वयभाषाः -

हे (अग्ने) जगत्पिता परमात्मन् ! (ते) तेरा (वत्सः) प्रिय पुत्र (परमात् चित्) सुदूरस्थ भी (सधस्थात्) प्रदेश से (मनः) अपने मन को (आयमत्) लाकर तुझ में केन्द्रित कर रहा है। अर्थात् मैं तेरा प्रिय पुत्र तुझमें मन को केन्द्रित कर रहा हूँ। मैं (गिरा) स्तुति-वाणी से (त्वाम्) तुझ परमात्मा की (कामये) कामना कर रहा हूँ, अर्थात् तेरे प्रेम में आबद्ध हो रहा हूँ ॥८॥

भावार्थभाषाः -

जब मनुष्य सांसारिक विषयों की निःसारता को देख लेता है, तब दूर-से-दूर भू-प्रदेशों में भटकते हुए अपने मन को सभी प्रदेशों से लौटा कर परमात्मा में ही संलग्न कर लेता है और वाणी से परमात्मा के ही गुण-धर्मों का बारम्बार स्तवन करता है और उसके प्रेम से परिप्लुत हृदयवाला होकर सम्पूर्ण पृथिवी के भी राज्य को उसके समक्ष तुच्छ गिनता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अहं परमात्मनि त्वयि प्रेम बध्नामीत्याह।

पदार्थान्वयभाषाः -

हे (अग्ने) जगत्पितः परमात्मन् ! (ते) तव (वत्सः२) प्रियः पुत्रोऽयम् (परमात् चित्) सुदूरादपि सधस्थात् प्रदेशात्। सह तिष्ठन्ति जनाः पदार्था वा यत्र स सधस्थः सहस्थानं तस्मात्। सधमादस्थयोश्छन्दसि अ० ६।३।९६ इति सहस्य सधादेशः। (मनः) मानसम् (आ यमत्) आयच्छति, आसमन्तादानीय त्वयि केन्द्रितं करोति। अहं तव वत्सस्त्वयि मनः केन्द्रयामीति भावः। यमद् इति यमु उपरमे धातोर्लेटि रूपम्। बहुलं छन्दसि अ० २।४।७३ इति शपो लुकि धातोर्यच्छादेशो न। ततश्च त्वयि केन्द्रितमानसोऽहम् (गिरा) स्तुतिवाचा (त्वाम्) परमात्मानम् (कामये) अभिलषामि, त्वत्प्रेमबद्धो भवामीति भावः ॥८॥

भावार्थभाषाः -

यदा मानवः सांसारिकविषयाणां निःसारतां पश्यति तदा दूरात् सुदूरेषु भूप्रदेशेषु लोक-लोकान्तरेषु च भ्राम्यत् स्वकीयं मनः सर्वेभ्योऽपि प्रदेशेभ्यः प्रतिनिवर्त्य परमात्मन्येव संलगयति, गिरा च परमात्मन एव गुणधर्मान् मुहुर्मुहुः स्तौति, तत्प्रेमपरिप्लुतहृदयश्च सकलाया धरित्र्या राज्यमपि तत्समक्षं तुच्छं गणयति ॥८॥

टिप्पणी: १. ऋ० ८।११।७, कामये इत्यस्य स्थाने कामया इति पाठः। य० १२।११५। साम० ११६६। यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं मनुष्यैः सदैव मनः स्ववशं विधेयं वाणी च इति विषये व्याख्यातवान्। २. ऋचोऽस्या द्रष्टा ऋषिरपि वत्स एव। तत्तु तस्य न वास्तविकं नाम, किन्तु मन्त्रवर्णनसौन्दर्याकृष्टः स स्वकीयम् उपनाम वत्स इति चक्रे। तेनैव नाम्ना स प्रसिद्धिं गत इति बोध्यम्।