वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣣च्छ꣡न्ति꣢ दे꣣वाः꣢ सु꣣न्व꣢न्तं꣣ न꣡ स्वप्ना꣢꣯य स्पृहयन्ति । य꣡न्ति꣢ प्र꣣मा꣢द꣣म꣡त꣢न्द्राः ॥७२१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥७२१॥

मन्त्र उच्चारण
पद पाठ

इ꣣च्छ꣡न्ति꣢ । देवाः꣢ । सु꣣न्व꣡न्त꣢म् । न । स्व꣡प्ना꣢꣯य । स्पृ꣣हयन्ति । य꣡न्ति꣢꣯ । प्र꣣मा꣡द꣢म् । प्र꣣ । मा꣡द꣢꣯म् । अ꣡त꣢꣯न्द्राः । अ । त꣣न्द्राः ॥७२१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 721 | (कौथोम) 1 » 2 » 3 » 3 | (रानायाणीय) 2 » 1 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः गुरु-शिष्य का विषय वर्णित है।

पदार्थान्वयभाषाः -

(देवाः) विद्वान् गुरुजन (सुन्वन्तम्) पुरुषार्थरूप सोमयाग करनेवाले विद्यार्थी को ही (इच्छन्ति) शिष्यरूप में स्वीकार करना चाहते हैं। वे (स्वप्नाय) निद्रालु आलसी शिष्य को (न स्पृहयन्ति) नहीं पसन्द करते। (प्रमादम्) जो विद्याध्ययन से प्रहृष्ट हो जानेवाला है, उसके पास वे (अतन्द्राः) निरालस्य होकर (यन्ति) जाते हैं ॥३॥

भावार्थभाषाः -

लौकिक विद्या और ब्रह्मविद्या की भी प्राप्ति पुरुषार्थ से ही होती है। पुरुषार्थी की ही दूसरे लोग भी सहायता करते हैं, निष्कर्मण्य की नहीं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

(देवाः) विद्वांसो गुरवः (सुन्वन्तम्) पुरुषार्थरूपसोमनिष्पादिनम् एव विद्यार्थिनम् (इच्छन्ति)शिष्यत्वेन वाञ्छन्ति, ते (स्वप्नाय) निद्रालवे शिष्याय (न स्पृहयन्ति) न रुचिं कुर्वन्ति। (प्रमादम्) यो विद्याध्ययनेन प्रकर्षतो माद्यति स प्रमादः तम् (अतन्द्राः) अनलसाः सन्तः (यन्ति) प्राप्नुवन्ति ॥३॥

भावार्थभाषाः -

लौकिकविद्याया ब्रह्मविद्यायाश्चापि प्राप्तिः पुरुषार्थादेव जायते। पुरुषार्थिन एवेतरेऽपि जनाः साहाय्यं कुर्वन्ति न निष्कर्मण्यस्य ॥३॥

टिप्पणी: २. ऋ० ८।२।१८, अथ० २०।१८।३। उभयत्र ‘स्तोमं॑ चिकेत’ इति पाठः।