वांछित मन्त्र चुनें
आर्चिक को चुनें

पु꣣रुहूतं꣡ पु꣢रुष्टु꣣तं꣡ गा꣢था꣣न्या꣡३꣱ꣳस꣡न꣢श्रुतम् । इ꣢न्द्र꣣ इ꣡ति꣢ ब्रवीतन ॥७१४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुरुहूतं पुरुष्टुतं गाथान्या३ꣳसनश्रुतम् । इन्द्र इति ब्रवीतन ॥७१४॥

मन्त्र उच्चारण
पद पाठ

पु꣣रुहूत꣢म् । पु꣣रु । हूत꣣म् । पु꣣रुष्टुत꣢म् । पु꣣रु । स्तुत꣢म् । गा꣣थान्य꣢꣯म् । स꣡न꣢꣯श्रुतम् । स꣡न꣢꣯ । श्रु꣣तम् । इ꣡न्द्रः꣢꣯ । इ꣡ति꣢꣯ । ब्र꣣वीतन । ब्रवीत । न ॥७१४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 714 | (कौथोम) 1 » 2 » 1 » 2 | (रानायाणीय) 2 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में आचार्य शिष्यों को कह रहा है।

पदार्थान्वयभाषाः -

हे शिष्यो ! तुम (पुरुहूतम्) बहुतों से पुकारे जानेवाले, (पुरुस्तुतम्) बहुत स्तुति किये जानेवाले, (गाथान्यम्) वेदवाणियों को प्राप्त करानेवाले अर्थात् वेदवाणियों के उपदेष्टा, (सनश्रुतम्) सनातन-रूप से प्रसिद्ध परमेश्वर को ही (इन्द्रः इति) इन्द्र नाम से (ब्रवीतन) कहा करो ॥२॥

भावार्थभाषाः -

यद्यपि इन्द्र का अर्थ आचार्य भी होता है तथापि इन्द्रों का भी इन्द्र परमेश्वर ही है, जैसा कि योगदर्शन १।२६ में वर्णित है कि ‘ईश्वर काल से बंधा न होने के कारण प्राचीनों का भी गुरु है’ ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाचार्यः शिष्यान् प्राह।

पदार्थान्वयभाषाः -

भोः शिष्याः ! यूयम् (पुरुहूतम्) पुरुभिः बहुभिः आहूतम्, (पुरुष्टुतम्) बहुस्तुतम्, (गाथान्यम्२) गीयन्ते इति गाथाः वेदवाचः ताः नयति प्रापयतीति गाथानीः तम्,वेदवाचामुपदेष्टारम्, (सनश्रुतम्३) सनातनतया प्रसिद्धम् परमेश्वरमेव (इन्द्रः इति) इन्द्र इति नाम्ना (ब्रवीतन) ब्रूत। [ब्रूञ् व्यक्तायां वाचि, अदादिः, ईडागमश्छान्दसः, तस्य तनबादेशः] ॥२॥

भावार्थभाषाः -

यद्यप्याचार्योऽपि ‘इन्द्र’ पदवाच्योऽस्ति तथापि इन्द्राणामपि इन्द्रः परमेश्वर एव विद्यते, “स पूर्वेषामपि गुरुः कालेनानवच्छेदात्” (योग० १।२६) इत्युक्तेः ॥२॥

टिप्पणी: १. ऋ० ८।९२।२ २. गाथाः स्तोत्रशस्त्रमन्त्राणि ताभिः नीयते यः स गाथान्यः तं गाथान्यम्—इति वि०। गाथान्यं गानयोग्यं गातव्यम्—इति सा०। (गाथान्यः) यो गाथा नयति तस्य—इति ऋ० १।१९०।१ भाष्ये द०। ३. सनशब्दः सदावाची, सदैव विश्रुतम्—इति वि०।