वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: जगती स्वर: निषादः काण्ड:

अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते । आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि꣣ र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥७००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥७००॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । प्रि꣣या꣡णि꣢ । प꣣वते । च꣡नो꣢꣯हितः । च꣡नः꣢꣯ । हि꣣तः । ना꣡मा꣢नि । य꣣ह्वः꣢ । अ꣡धि꣢꣯ । ये꣡षु꣢꣯ । व꣡र्धते꣢꣯ । आ । सू꣡र्य꣢꣯स्य । बृ꣣ह꣢तः । बृ꣣ह꣢न् । अ꣡धि꣢꣯ । र꣡थ꣢꣯म् । वि꣡ष्व꣢꣯ञ्चम् । वि । स्व꣣ञ्चम् । अरुहत् । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥७००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 700 | (कौथोम) 1 » 1 » 19 » 1 | (रानायाणीय) 1 » 5 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में क्रमाङ्क ५५४ पर परमेश्वर के विषय में की गयी थी। यहाँ जीवात्मा का विषय है।

पदार्थान्वयभाषाः -

(चनोहितः) भोगों को भोगने के लिए शरीर में प्रेषित, (यह्वः) महाशक्तिशाली जीवात्मा (प्रियाणि) प्रिय (नामानि) लचकीले अङ्गों में (पवते) जाता है, (येषु अधि) जिनमें, यह (वर्धते) महिमा को प्राप्त करता है। (बृहन्) महान् (विचक्षणः) ज्ञानवान् यह जीवात्मा (बृहतः) महान् (सूर्यस्य) गतिमय प्राण के (वि-स्वञ्चम्) विशिष्ट शुभगतिवाले (रथम् अधि) देहस्य रथ पर (आ अरुहत्) चढ़कर बैठा हुआ है ॥१॥

भावार्थभाषाः -

आत्मा कर्मफल-भोग के लिए प्राणयुक्त देह का आश्रय लेकर शुभाशुभ भोगों को भोगता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५५४ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषयमाह।

पदार्थान्वयभाषाः -

(चनोहितः) चनसे भोगाय हितः देहं प्रेषितः, (यह्वः) महाबलः (सोमः) जीवात्मा (प्रियाणि) चारूणि (नामानि) नमनयोग्यानि अङ्गानि (पवते) गच्छति, (येषु अधि) येषु अङ्गेषु एषः (वर्धते) महिमानं प्राप्नोति। (बृहन्) महान्, (विचक्षणः) ज्ञानवान् एष जीवात्मा (बृहतः) महतः (सूर्यस्य) सरणकर्त्तुः प्राणस्य। [‘प्रा॒णो ह॒ सू॑र्यः’ इति श्रुतेः। अथ० ११।४।१२।] (वि-स्वञ्चम्) विशेषेण शोभनगतियुक्तम् (रथम् अधि) देहरथम् अधिकृत्य (आ अरुहत्) आरूढोऽस्ति ॥१॥

भावार्थभाषाः -

आत्मा कर्मफलभोगार्थं प्राणसहचरितं देहमाश्रित्य शुभाशुभान् भोगान् भुङ्क्ते ॥१॥

टिप्पणी: १. ऋ० ९।७५।१, साम० ५५४।