वांछित मन्त्र चुनें
आर्चिक को चुनें

तं꣢ दु꣣रो꣡ष꣢म꣣भी꣢꣫ नरः꣣ सो꣡मं꣢ वि꣣श्वा꣡च्या꣢ धि꣣या꣢ । य꣣ज्ञा꣡य꣢ स꣣न्त्व꣡द्र꣢यः ॥६९९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं दुरोषमभी नरः सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥६९९॥

मन्त्र उच्चारण
पद पाठ

तम् । दु꣣रो꣡ष꣢म् । अ꣣भि꣢ । न꣡रः꣢꣯ । सो꣡म꣢꣯म् । वि꣣श्वा꣡च्या꣢ । धि꣣या꣢ । य꣣ज्ञा꣡य꣢ । स꣣न्तु । अ꣡द्र꣢꣯यः । अ । द्र꣣यः ॥६९९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 699 | (कौथोम) 1 » 1 » 18 » 3 | (रानायाणीय) 1 » 5 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(दुरोषम्) जलाये या सुखाये न जा सकने योग्य (तम्) उस पूर्ववर्णित (सोमम्) ज्ञान-कर्म-उपासनारूप सोमरस को (नरः) सज्जन लोग (विश्वाच्या) सब उत्कृष्ट विषयों के विवेचन में व्याप्त होनेवाली (धिया) बुद्धि से (अभि) अभिषुत करें, जिससे (अद्रयः) किसी भी आन्तरिक या बाह्य शत्रु से विदीर्ण न होनेवाले वे लोग (यज्ञाय) परमेश्वर की पूजा, विद्वानों के सत्कार, संगठन और परोपकार-रूप यज्ञ के लिए (सन्तु) होवें ॥३॥

भावार्थभाषाः -

श्रेष्ठज्ञान, सत्कर्म और परमेश्वर की उपासना को जो अपने जीवन में ग्रहण करते हैं वे सदा विजयी और यज्ञपरायण होते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(दुरोषम्२) दुर्दहं दुःशोषं वा। [दुःखेन उष्यते दह्यते इति दुरोषः तम्। दुर्पूर्वः उष दाहे भ्वादिः।] पूर्ववर्णितम् (सोमम्) ज्ञानकर्मोपासनारूपम् सोमरसम् (नरः) सज्जनाः (विश्वाच्या३) सर्वान् सद्विषयान् व्याप्नुवानया। [विश्वान् सर्वान् विवेचनीयान् विषयान् प्रति अञ्चति गच्छतीति तया।] (धिया) बुद्ध्या (अभि) अभिषुण्वन्तु। [उपसर्गबलेन योग्यक्रियाध्याहारः।] येन (अद्रयः४) केनापि आन्तरिकेण बाह्येन वा शत्रुणा अविदृताः ते (यज्ञाय) ईशपूजनाय विद्वत्सत्काराय संगतिकरणाय परोपकाराय च (सन्तु) भवन्तु ॥३॥

भावार्थभाषाः -

सज्ज्ञानं सत्कर्म परमेश्वरोपासनां च ये स्वजीवने गृह्णन्ति ते सदा विजयिनो यज्ञपरायणाश्च जायन्ते ॥३॥

टिप्पणी: १. ऋ० ९।१०१।३ ‘य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः’ इति तृतीयः पादः। २. रोषतेहिंसार्थस्य रेफलोपे दीर्घाभावे ओषतेर्दाहार्थस्य वा णलि रूपमिति सन्देहादनवग्रहः—इति सा०। दुरोषम् अरोषम्—इति वि०। ३. विश्वाच्या विश्वगामिन्या—इति वि०। सर्वान् कामान् अञ्चित्र्या कामान् प्रापयित्र्या—इति सा०। ४. अद्रयः मेघाः वर्षस्वभावाः अथवा अद्रयः अभिषवग्राव्णः—इति वि०। अद्रयः अवारणयुक्ताः इति सा०।