वांछित मन्त्र चुनें
आर्चिक को चुनें

न꣡ त्वावा꣢꣯ꣳ अ꣣न्यो꣢ दि꣣व्यो꣡ न पार्थि꣢꣯वो꣣ न꣢ जा꣣तो꣡ न ज꣢꣯निष्यते । अ꣣श्वाय꣡न्तो꣢ मघवन्निन्द्र वा꣣जि꣡नो꣢ ग꣣व्य꣡न्त꣢स्त्वा हवामहे ॥६८१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न त्वावाꣳ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥६८१॥

मन्त्र उच्चारण
पद पाठ

न꣢ । त्वा꣡वा꣢꣯न् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । दि꣣व्यः꣢ । न । पा꣡र्थि꣢꣯वः । न । जा꣡तः꣢ । न । ज꣡निष्यते । अश्वाय꣡न्तः꣢ । मघ꣣वन् । इन्द्र । वाजि꣡नः꣢ । ग꣣व्य꣡न्तः꣢ । त्वा꣣ । हवामहे ॥६८१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 681 | (कौथोम) 1 » 1 » 11 » 2 | (रानायाणीय) 1 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

इस प्रकार अपने अन्तरात्मा को उद्बोधन देकर अब परमात्मा का आह्वान करते हैं।

पदार्थान्वयभाषाः -

हे परमेश्वर ! (अन्यः) दूसरा (त्वावान्) तेरे समान (न दिव्यः) न आकाशवर्ती और (न पार्थिवः) न भूमिवर्ती कोई पदार्थ है। तेरे समान (न जातः) न कोई पदार्थ उत्पन्न हुआ है, (न जनिष्यते) न भविष्य में उत्पन्न होगा। हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) परमात्मन् ! (वाजिनः) बलवान् तथा पुरुषार्थी हम (अश्वायन्तः) श्रेष्ठ प्राणों की कामनावाले और (गव्यन्तः) इन्द्रियरूप गौओं के श्रेष्ठ ज्ञान व कर्म रूप दूध की कामनावाले होकर (त्वा) तुझे (हवामहे) पुकार रहे हैं ॥२॥ इस मन्त्र में ‘उसके मुख के तुल्य कोई अन्य वस्तु नहीं है, न ही नेत्रों के तुल्य है’ इस अर्थवाली साहित्यदर्पण १०।२० में उदाहृत उक्ति के समान उपमानलुप्तोपमालङ्कार है ॥२॥

भावार्थभाषाः -

अलौकिक तथा अद्वितीय परमात्मा की उपासना करके बलवान् और पुरुषार्थी होकर सब लोग ऐहलौकिक तथा पारलौकिक अभीष्ट को प्राप्त कर सकते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

एवं स्वात्मानमुद्बोध्य परमात्मानमाह्वयति।

पदार्थान्वयभाषाः -

हे परमेश्वर ! (अन्यः) इतरः (त्वावान्) त्वत्सदृशः (न दिव्यः) न दिवि भवः, (न पार्थिवः) न पृथिव्यां भवः कश्चिद् अस्ति। (न जातः) न पूर्वमुत्पन्नः, (न जनिष्यते) न भाविनि काले कदाचित् उत्पत्स्यते। हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) परमात्मन् ! (वाजिनः) बलवन्तः पुरुषार्थिनो वयम् (अश्वायन्तः) श्रेष्ठान् प्राणान् कामयमानाः (गव्यन्तः) इन्द्रियधेनूनां श्रेष्ठं ज्ञानकर्मरूप दुग्धं च कामयमानाः (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥२ अत्र ‘तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्’ इति दर्पणोदाहृतवद् (सा० द० १०।२०) उपमानलुप्तोपमालङ्कारः ॥२॥

भावार्थभाषाः -

अलौकिकमद्वितीयं परमात्मानमुपास्य बलवन्तः पुरुषार्थिनश्च भूत्वा सर्वे ऐहलौकिकं पारलौकिकं च समीहितं प्राप्तुमर्हन्ति ॥२॥

टिप्पणी: १. ऋ० ७।३२।२३, य० २७।३६, अथ० २०।१२१।२। २. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये यजुर्भाष्ये च परमेश्वरेण तुल्योऽधिको वा कोऽपि नास्तीति विषये व्याख्यातवान्।