वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢न꣣म꣡स्य जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥६८०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥६८०॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । त्वा꣣ । शूर । ना꣡नु꣢꣯मः । अ꣡दु꣢꣯ग्धाः । अ । दु꣣ग्धाः । इव । धे꣡न꣢वः । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥६८०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 680 | (कौथोम) 1 » 1 » 11 » 1 | (रानायाणीय) 1 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २३३ क्रमाङ्क पर जगदीश्वर के पक्ष में व्याख्यात हो चुकी है। यहाँ अपने अन्तरात्मा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (शूर इन्द्र) शूरवीर हमारे अन्तरात्मन् ! हम (त्वा अभि) तेरे प्रति (नोनुमः) बारम्बार स्तुति-शब्द बोलते हैं। किस तरह? (अदुग्धाः न) दुही हुई (धेनवः इव) गौएँ जैसे दुहे जाने की उत्कण्ठा को प्रकट करने के लिए बारम्बार शब्द करती हैं। तू कैसा है? (अस्य) इस (जगतः) दूर-दूर तक जानेवाले मन का (ईशानम्) स्वामी, (स्वर्दृशम्) आनन्द का द्रष्टा और (तस्थुषः) शरीर में अजंगम रूप में स्थित अङ्ग-प्रत्यङ्गों का भी (ईशानम्) स्वामी है। अतः हम (नोनुमः) तेरे गुणों का बार-बार वर्णन करते हैं, तुझे (उद्बोधन) देते हैं ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्य के आत्मा में महान् शक्तियाँ प्रसुप्त पड़ी हैं। सारे शरीरचक्र के अधिष्ठाता उस आत्मा को उद्बोधन देकर सभी लौकिक और आध्यात्मिक सिद्धियाँ प्राप्त की जा सकती हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

प्रथमा ऋक् पूर्वार्चिके २३३ क्रमाङ्के जगदीश्वरविषये व्याख्याता। अत्र स्वकीय आत्मा सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (शूर इन्द्र) वीर अस्मदीय अन्तरात्मन् ! वयम् (त्वा अभि) त्वाम् अभिलक्ष्य नोनुमः भूयोभूयोऽतिशयेन स्तुमः। [णु स्तुतौ अदादिः, णू स्तवने वा तुदादिः, यङ्लुकि रुपम्।] कथमिव ? (अदुग्धाः) दोहनम् अप्राप्ताः (धेनवः इव) गावो यथा दोहनोत्कण्ठाद्योतनाय नोनुवन्ति रम्भायन्ते। कीदृशं त्वाम् ? (अस्य) एतस्य (जगतः) जङ्गमस्य मनसः। [ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ दू॒रङ्गमं ज्यो॑तिषां ज्योतिरेकन्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु। य० ३४।१ इति श्रुतेः।] (ईशानम्) स्वामिनम्, किञ्च (स्वर्दृशम्) स्वः आनन्दः तस्य द्रष्टारम्, अपि च (तस्थुषः) शरीरे अजङ्गमरूपे स्थितस्य अङ्गप्रत्यङ्गजातस्य (ईशानम्) स्वामिनं त्वां वयम् (नोनुमः) भूयो भूयो भृशं स्तुमः, उद्बोधयामः ॥१॥२ अत्र उपमालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यस्यात्मनि महत्यः शक्तयः प्रसुप्ताः सन्ति। सर्वस्यापि शरीरचक्रस्याधिष्ठातारं तं समुद्बोध्य निखिला अपि लौकिक्य आध्यात्मिक्यश्च सिद्धयः प्राप्तुं पार्यन्ते ॥१॥

टिप्पणी: १. ऋ० ७।३२।२२, य० २७।३५, अथ० २०।१२१।१, साम० २३३। २. दयानन्दस्वामी मन्त्रमिममृग्भाष्ये परमात्मविषये यजुर्भाष्ये च राजधर्मविषये व्याचष्टे।