मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥६७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥६७॥
मू꣣र्धान꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः꣢ ॥६७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
कैसे परमेश्वर का विद्वान् लोग दर्शन करते हैं, इस विषय में कहते हैं।
(दिवः) द्युलोक के (मूर्धानम्) शिरोमणि, (पृथिव्याः) भूमि के (अरतिम्) सूर्य के चारों ओर तथा अपनी धुरी पर घुमानेवाले, (वैश्वानरम्) सब नरों के हितकारी, सबके नेता, (ऋते) सत्य में (आ जातम्) सर्वत्र प्रसिद्ध, (कविम्) मेधावी, (सम्राजम्) ब्रह्माण्डरूप साम्राज्य के सम्राट्, (जनानाम्) प्रजाओं के (अतिथिम्) अतिथितुल्य सत्कार करने योग्य (नः) हमारे (पात्रम्) रक्षक (अग्निम्) तेजस्वी परमेश्वर को (देवाः) विद्वान् उपासकजन (आसन्) मुख में जप द्वारा और हृदय-गुहा में ध्यान द्वारा (जनयन्त) प्रकट करते हैं, अर्थात् जप द्वारा और ध्यान द्वारा उसका साक्षात्कार करते हैं ॥५॥ इस मन्त्र में विशेषणों के साभिप्राय होने से परिकर अलङ्कार है ॥५॥
जो परमात्मा द्यावापृथिवी का सञ्चालक, सबका हित करनेवाला, उत्कृष्ट सत्य नियमोंवाला, महाकवि, विश्व का सम्राट् और सबका विपदाओं से त्राण करनेवाला है, उसका ध्यान करके मनुष्यों को सब सुख प्राप्त करने चाहिए ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ कीदृशं परमेश्वरं विद्वांसः साक्षात् कुर्वन्तीत्याह।
(दिवः) द्युलोकस्य (मूर्धानम्) शिरोमणिम्, (पृथिव्याः) भूमेः (अरतिम्) सूर्यं परितः स्वधुरि च गमयितारम्। अर्पयति गमयति इति अरतिः। ऋ गतौ धातोः वहिवस्यर्तिभ्यश्चित्।’ उ० ४।६१ इति अति प्रत्ययः। (वैश्वानरम्) विश्वेषां नराणां हितम्, विश्वेषां नेतारं वा। वैश्वानरः कस्मात्? विश्वान् नरान् नयति, विश्व एनं नरा नयन्तीति वा। अपि वा विश्वानर एव स्यात्, प्रत्यृतः सर्वाणि भूतानि, तस्य वैश्वानरः इति हि निरुक्तम्। ७।२१। (कविम्) मेधाविनम्। कविः मेधाविनाम। निघं० ३।१५। (सम्राजम्) ब्रह्माण्डसाम्राज्यस्य धुरन्धरम्, (जनानाम्) प्रजानाम् (अतिथिम्) अतिथिवत् सत्करणीयम्, (नः) अस्माकम् (पात्रम्) रक्षकम्। पाति रक्षतीति पात्रम्। पा रक्षणे धातोः सर्वधातुभ्यः ष्ट्रन्।’ उ० ४।१६ इति ष्ट्रन्। (अग्निम्) ज्योतिर्मयं परमेश्वरम् (देवाः) विद्वांसः उपासकजनाः (आसन्) आस्ये मुखे जपद्वारा, हृदयगह्वरे वा ध्यानद्वारा अत्र पद्दन्नोमास्०’ अ० ६।१।६३ इत्यास्यशब्दस्य आसन् आदेशः। सुपां सुलुक्०’ अ० ७।१।३९। इति सप्तम्येकवचनस्य लुक्। (जनयन्त) प्रकटयन्ति साक्षात्कुर्वन्तीति भावः। जनी प्रादुर्भावे धातोः लडर्थे लङ्, व्यत्ययेनात्मनेपदम्, बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः ॥५॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः ॥५॥
यः परमात्मा द्यावापृथिव्योः सञ्चालकः सर्वहितकर्ता सुसत्यनियमो महाकविर्विश्वसम्राट् समेषां विपद्भ्यस्त्राता च वर्तते तं ध्यात्वा मनुष्यैः सर्वाणि सुखानि प्राप्तव्यानि ॥५॥