वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

तं꣡ त्वा꣢ स꣣मि꣡द्भि꣢रङ्गिरो घृ꣣ते꣡न꣢ वर्धयामसि । बृ꣣ह꣡च्छो꣢चा यविष्ठ्य ॥६६१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥६६१॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । त्वा꣣ । समि꣡द्भिः꣢ । सम् । इ꣡द्भिः꣢꣯ । अ꣣ङ्गिरः । घृ꣡ते꣢न । व꣣र्द्धयामसि । बृह꣢त् । शो꣣च । यविष्ठ्य ॥६६१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 661 | (कौथोम) 1 » 1 » 4 » 2 | (रानायाणीय) 1 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यज्ञाग्नि, आत्माग्नि तथा परमात्माग्नि को सम्बोधन किया गया है।

पदार्थान्वयभाषाः -

प्रथम—यज्ञाग्नि के पक्ष में। हे (अङ्गिरः) चंचल ज्वालावाले यज्ञाग्नि ! (तं त्वा) उस तुझको, हम (समिद्भिः) समिधाओं से, और (घृतेन) घृत से (वर्धयामसि) बढ़ाते हैं। हे (यविष्ठ्य) अतिशय युवा अग्ने ! तू (बृहत्) बहुत अधिक (शोच) चमक ॥ द्वितीय—जीवात्मा के पक्ष में। मनुष्य अपने अन्तरात्मा को उद्बोधन दे रहा है—हे (अङ्गिरः) कर्मशील मेरे अन्तरात्मन् ! (तं त्वा) उस बहुत कर्म करने में समर्थ तुझे, हम (समिद्भिः) ज्ञानरूप समिधाओं से और (घृतेन) सत्कर्मरूप घृत से (वर्धयामसि) बढ़ाते हैं। हे (यविष्ठ्य) अतिशय तरुण ! तू संसार में (बृहत्) बहुत अधिक (शोच) चमक ॥ तृतीय—परमात्मा के पक्ष में। हे (अङ्गिरः) प्राणप्रिय परमात्मन् ! (तं त्वा) सब कर्मों में समर्थ उन आपको हम (समिद्भिः) प्रदीप्त करने के साधन योगाङ्गों से और (घृतेन) स्नेहयुक्त भक्तिभावों से, अपने अन्तःकरण में (वर्धयामसि) बढ़ाते हैं। हे (यविष्ठ्य) सर्वातिशय समृद्ध भगवन् ! तुम, हमारे अन्तःकरण में (बृहत्) अधिक (शोच) चमको ॥२॥ यहाँ श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि यज्ञाग्नि को प्रदीप्त [और संवृद्ध करके स्वयं भी तेज से प्रदीप्त] तथा संवृद्ध हों। इसी प्रकार अपने अन्तरात्मा को उद्बोधन देकर निर्भ्रान्त ज्ञानराशि का संचय करके महान् कीर्ति प्राप्त करें और योगाभ्यास एवं भक्ति से परमात्मा-रूप अग्नि को अपने आत्मा में प्रदीप्त करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ यज्ञाग्निमात्माग्निं परमात्मात्माग्निं च सम्बोधयति।

पदार्थान्वयभाषाः -

प्रथमः—यज्ञाग्निपरः। हे (अङ्गिरः) चपलज्वाल यज्ञाग्ने ! [अगि गतौ। यः अङ्गति गच्छति सोऽङ्गिराः, तत्सम्बुद्धौ अङ्गिरः इति। अगि धातोः अङ्गिराः। उ० ४।२३७ इति निपातनाद् असिप्रत्ययः इरुडागमश्च।] (तं त्वा) तादृशं त्वाम्, वयम् (समिद्भिः) काष्ठैः (घृतेन) आज्येन च (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य२) युवतम ! (अतिशयेन युवा यविष्ठः, यविष्ठ एव यविष्ठ्यः, स्वार्थे यत्।) त्वम् (बृहत्) अत्यधिकम् (शोच) दीप्यस्व ॥ द्वितीयः—जीवात्मपरः। स्वात्मानं समुद्बोधयति—हे (अङ्गिरः) कर्मशील मदीय अन्तरात्मन् ! (तं त्वा) तादृशं बहुकर्मक्षमं त्वाम् वयम् (समिद्धिः) ज्ञानेन्धनैः (घृतेन) सत्कर्मरूपेण आज्येन च (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य) तरुणतम ! त्वम्, संसारे (बृहत्) अत्यधिकम् (शोच) प्रदीप्यस्व ॥ तृतीयः—परमात्मपरः। हे (अङ्गिरः) प्राणप्रिय परमात्मन् ! (तं त्वा) तादृशं सर्वकर्मसमर्थं त्वाम्, वयम् (समिद्धिः) समिन्धनसाधनैः योगाङ्गैः घृतैः स्नेहयुतैः भक्तिभावैश्च, स्वान्तःकरणे (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य) समृद्धतम भगवन्। त्वम् अस्मदन्तःकरणे (बृहत्) अत्यधिकम् (शोच) दीप्यस्व३ ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

मनुष्यैर्यज्ञाग्निं समिध्य संवर्ध्य च स्वयमपि तेजसा समिद्धैः संवृद्धैश्च भाव्यम्। तथैव मनुष्यैः स्वात्मानमुद्बोध्य निर्भ्रान्तं ज्ञानराशिं संचित्य महोज्ज्वलानि कर्माणि कृत्वा महती कीर्तिः प्राप्तव्या। अथ च योगाभ्यासैः भक्त्या च परमात्माग्निः स्वात्मनि प्रदीपनीयः ॥२॥

टिप्पणी: १. ऋ० ६।१६।११, य० ३।३। २. यविष्ठ्यः अतिशयेन बलवान्—इति वि०। ३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये वाचकलुप्तोपमामाश्रित्य ये राजादयो जनाः घृतेनाग्निमिव शिक्षासत्काराभ्यां शूरान् वर्धयन्ति ते सदा विजयमाप्नुवन्तीत्यादिरूपेण, यजुर्भाष्ये, ‘भौतिकोऽग्निर्होमशिल्पविद्यासिद्धये साधनैरिन्धनादिभिर्नित्यं वर्धनीय इत्यादिरुपेण’ व्याख्यातवान्।