त्व꣢मि꣣मा꣡ ओष꣢꣯धीः सोम꣣ वि꣢श्वा꣣स्त्व꣢म꣣पो꣡ अ꣢जनय꣣स्त्वं꣢ गाः । त्व꣡मात꣢꣯नोरु꣣र्वा꣢३न्त꣡रि꣢क्षं꣣ त्वं꣡ ज्योति꣢꣯षा꣣ वि꣡ तमो꣢꣯ ववर्थ ॥६०४॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमातनोरुर्वा३न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥६०४॥
त्व꣢म् । इ꣣माः꣢ । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । सोम । वि꣡श्वाः꣢꣯ । त्वम् । अ꣣पः꣢ । अ꣣जनयः । त्व꣢म् । गाः । त्वम् । आ । अ꣣तनोः । उरु꣢ । अ꣣न्त꣡रि꣢क्षम् । त्वम् । ज्यो꣡ति꣢꣯षा । वि । त꣡मः꣢꣯ । व꣣वर्थ ॥६०४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में सोम परमेश्वर की महिमा वर्णित की गयी है।
हे (सोम) सर्वोत्पादक परमात्मन् ! (त्वम्) सर्वशक्तिमान् आपने (इमाः) इन दृश्यमान (विश्वाः) सब (ओषधीः) रोगनिवारक सोमलता आदि ओषधियों को, (त्वम्) सर्वोपकारी आपने (अपः) जलों को, (त्वम्) सब प्राणियों के पालनकर्ता आपने (गाः) गौओं को (अजनयः) उत्पन्न किया है। (त्वम्) सबके विस्तारक आपने उरु विशाल (अन्तरिक्षम्) अन्तरिक्ष को (आतनोः) विस्तीर्ण किया है। (त्वम्) सर्वप्रकाशक आप (ज्योतिषा) सूर्य की ज्योति से (तमः) रात्रि के अन्धकार को (वि ववर्थ) निवारण करते हो ॥३॥
परमात्मा द्वारा ही यह चराचररूप सब जगत् उत्पन्न, पालित, पोषित और व्यवस्थित किया जाकर सबको सुख दे रहा है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ सोमाख्यस्य परमेश्वरस्य महिमानमाह।
हे (सोम) सर्वोत्पादक परमात्मन् ! यः सवति चराचरं जगत् स सोमः। षु प्रसवैश्वर्ययोः। ‘अर्तिस्तुसु०’ उ० १।१४ इति मन्। (त्वम्) सर्वशक्तिमान् (इमाः) एताः दृश्यमानाः (विश्वाः) समस्ताः (ओषधीः) रोगनिवारिकाः सोमलताद्याः, (त्वम्) सर्वोपकारी (अपः) जलानि, (त्वम्) सर्वप्राणिपालकः (गाः) धेनूः (अजनयः) उत्पादितवानसि। (त्वम्) सर्वविस्तारकः (उरु) विशालम् (अन्तरिक्षम्) मध्यलोकम् (आ अतनोः) विस्तारितवानसि। (त्वम्) सर्वप्रकाशकः (ज्योतिषा) सूर्यप्रकाशेन (तमः) रात्र्याः अन्धकारम् (वि ववर्थ) निवारयसि। वृञ् वरणे धातोः सामान्यार्थे लिटि ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’ अ० ७।२।६४ इति निपातनाद् इट्प्रतिषेधे रूपम्। “ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम्। निगम एव, न भाषाया”मिति काशिकावृत्तिः ॥३॥२
परमात्मनैवेदं चराचररूपं सर्वं जगदुत्पादितं पालितं पोषितं व्यवस्थापितं च सर्वान् सुखयति ॥३॥