वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥५९८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥५९८॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उग्रः꣢ । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥५९८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 598 | (कौथोम) 6 » 3 » 2 » 4 | (रानायाणीय) 6 » 2 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमेश्वर और राजा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (उग्र) शत्रुओं पर प्रचण्ड (इन्द्र) शत्रुविदारक जगदीश्वर अथवा राजन् ! आप (वाजेषु) संकटों में (सहस्रप्रधनेषु च) और सहस्रों का संहार करनेवाले घोर देवासुर-संग्रामों में (उग्राभिः) उत्कट (ऊतिभिः) रक्षा-शक्तियों से (नः) हम धार्मिकों की (अव) रक्षा कीजिए ॥४॥ इस मन्त्र में अर्थश्लेष अलङ्कार है। ‘उग्र, उग्रा’ में छेकानुप्रास है ॥४॥

भावार्थभाषाः -

जीवन में पग-पग पर आये हुए संकटों में, बाह्य तथा आभ्यन्तर भीषण संग्रामों में, योगमार्ग में उपस्थित व्याधि, स्त्यान, संशय आदि विघ्नों में और राज्य में उत्पन्न राज्यविप्लव, शत्रु द्वारा चढ़ाई आदि में वीर परमेश्वर और राजा हमारी निरन्तर रक्षा करते रहें ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमेश्वरो नृपतिश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (उग्र) शत्रुषु प्रचण्ड (इन्द्र) रिपुविदारक जगदीश्वर राजन् वा ! त्वम् (वाजेषु) संकटेषु। वाज इति संग्रामनाम। निघं० २।१७। (सहस्रप्रधनेषु२ च) घोरेषु देवासुरसंग्रामेषु च। सहस्राणि असंख्यातानि प्रधनानि निधनानि येषु तानि सहस्रप्रधनानि घोरयुद्धानि तेषु। (उग्राभिः) उत्कटाभिः (ऊतिभिः) रक्षणशक्तिभिः (नः) धार्मिकान् अस्मान् (अव) रक्ष ॥४॥३ अत्र अर्थश्लेषालङ्कारः। ‘उग्र, उग्रा’ इत्यत्र छेकानुप्रासः ॥४॥

भावार्थभाषाः -

जीवने पदे पदे समायातेषु संकटेषु, बाह्याभ्यन्तरेषु भीषणसंग्रामेषु, योगमार्गे समुपस्थितेषु व्याधिस्त्यानसंशयादिषु विघ्नेषु राष्ट्रे चोद्बुद्धेषु राज्यविप्लवशत्रुसंनाहादिषु वीरः परमेश्वरो नृपतिश्चास्मान् सततं रक्षेत् ॥४॥

टिप्पणी: १. ऋ० १।७।४, साम० ७९८, अथ० २०।७०।१०। २. (सहस्रप्रधनेषु) ‘सहस्राणि असंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्तिराज्यसाधकेषु महायुद्धेषु’ इति ऋ० १।७।४ भाष्ये द०। सहस्रशब्दः कर्दमादीनां च। फि० सू० ५९ इति मध्योदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् इति तत्रैव सा०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे व्याचष्टे।