वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢ उ꣣स्रि꣢या꣣ अ꣢पि꣣ या꣢ अ꣣न्त꣡रश्म꣢꣯नि꣣ नि꣡र्गा अकृ꣢꣯न्त꣣दो꣡ज꣢सा । अ꣣भि꣢ व्र꣣जं꣡ त꣢त्निषे꣣ ग꣢व्य꣣म꣡श्व्यं꣢ व꣣र्मी꣡व꣢ धृष्ण꣣वा꣡ रु꣢ज । ओ꣡३म् व꣣र्मी꣡व꣢ धृष्ण꣣वा꣡ रु꣢ज ॥५८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा । अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज । ओ३म् वर्मीव धृष्णवा रुज ॥५८५॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । अ꣡पि꣢꣯ । याः । अ꣣न्तः꣢ । अ꣡श्म꣢꣯नि । निः । गाः । अ꣡कृ꣢꣯न्तत् । ओ꣡ज꣢꣯सा । अ꣢भि꣣ । व्र꣣ज꣢म् । त꣣त्निषे । ग꣡व्य꣢꣯म् । अ꣡श्व्य꣢꣯म् । व꣣र्मी꣢ । इ꣣व । धृष्णो । आ꣢ । रु꣣ज । ओ꣢३म् । व꣣र्मी꣡व꣢धृष्ण꣣वा꣡रु꣢ज ॥५८५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 585 | (कौथोम) 6 » 2 » 4 » 8 | (रानायाणीय) 5 » 11 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम परमेश्वर का वर्णन किया गया है।

पदार्थान्वयभाषाः -

(उस्रियाः अपि) निकलने योग्य होती हुई भी (याः) जो (अश्मनि अन्तः) मेघ के अन्दर रुक जाती हैं, उन (गाः) सूर्य-किरणों को (यः) जो आप (ओजसा) अपने प्रताप से (निर् अकृन्तत्) मेघ के बाहर निकाल देते हो, वह आप (गव्यम्) भूमि-सम्बन्धी और (अश्व्यम्) सूर्यसम्बन्धी (व्रजम्) मण्डल को (अभितत्निषे) चारों ओर विस्तीर्ण करते हो। हे (धृष्णो) विपत्तियों का धर्षण करनेवाले परमात्मन् ! आप (वर्मी इव) कवचधारी योद्धा के समान (आरुज) हमारी विपदाओं को और हमारे शत्रुओं को भग्न कर दो ॥८॥ इस मन्त्र में उपमालङ्कार है। ‘उस्रियाः अपि याः अन्तरश्मनि’ का यदि यह अर्थ करें कि ‘जो बहती हुई भी पत्थर के अन्दर रुकी हुई हैं’ तो विरोध प्रतीत होता है, ‘बहने के योग्य होती हुई भी मेघ में निरुद्ध’ इस अर्थ से विरोध का परिहार हो जाता है। अतः विरोधाभास अलङ्कार है ॥८॥

भावार्थभाषाः -

जैसे परमेश्वर मध्य में स्थित मेघ की बाधा को विच्छिन्न करके सूर्यकिरणों को भूमि पर प्रसारित कर देता है, वैसे ही जीवात्मा योगमार्ग में आये सब विघ्नों का विदारण कर सफलता प्राप्त करे ॥८॥ इस दशति में भी सोम नाम से परमात्मा का और उसके आनन्दरस का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ षष्ठ प्रपाठक में द्वितीय अर्ध की चतुर्थ दशति समाप्त ॥ पञ्चम अध्याय में एकादश खण्ड समाप्त ॥ पञ्चम अध्याय समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमः परमेश्वरो वर्ण्यते।

पदार्थान्वयभाषाः -

(उस्रियाः अपि२) निस्सरणयोग्या अपि सत्यः (याः अश्मनि अन्तः) मेघाभ्यन्तरे अवरुद्धा भवन्ति ताः। अश्मा इति मेघनाम। निघं० १।१०। (गाः) सूर्यदीधितीः। गावः इति रश्मिनाम। निघं० १।५। (यः) यो भवान् (ओजसा) स्वप्रतापेन (निर् अकृन्तत्३) निस्सारयति। स त्वम् (गव्यम्) भूमिसम्बन्धिनम् (अश्व्यम्) सूर्यसम्बन्धिनं च। असौ वा आदित्यो अश्वः। तै० ३।९।२३।२। (व्रजम्) मण्डलम् (अभि तत्निषे) अभितो विस्तारयसि। हे (धृष्णो) विपद्धर्षणशील परमात्मन् ! त्वम् (वर्मी इव) कवचधारी योद्धेव (आरुज) अस्माकं विपदः शत्रून् वा विदारय ॥८॥ अत्रोपमालङ्कारः। किञ्च ‘उस्रियाः अपि प्रवहमाना अपि अन्तरश्मनि निरुद्धाः’ इति विरोधः। प्रस्रवणयोग्या अपि अश्मनि रुद्धा इति परिहारः। तेन विरोधाभासोऽलङ्कारः ॥८॥

भावार्थभाषाः -

यथा परमेश्वरो मध्यस्था मेघबाधां विच्छिद्य सूर्यरश्मीन् भूमौ प्रसारयति, तथैव जीवात्मा योगमार्गे समागतान् सकलान् विघ्नान् विदार्य साफल्यमधिगच्छेत् ॥८॥ अत्रापि सोमनाम्ना परमात्मनस्तदानन्दरसस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके द्वितीयार्द्धे चतुर्थी दशतिः ॥ इति पञ्चमेऽध्याये एकादशः खण्डः ॥ समाप्तश्च पञ्चमोऽध्यायः ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालरामभगवती- देवीतनयेन हरिद्वारीयगुरुकुलकांगड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य- भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये पावमानं  काण्डं पर्व वा समाप्तिमगात् ॥

टिप्पणी: १. ऋ० ९।१०८।६ ‘अपि या अन्तरश्मनि’ इत्यत्र ‘अप्या अन्तरश्मनो’ इति पाठः। २. सायणस्तु ‘अपियाः’ इत्येकं पदं स्वीकृत्य “अपियाः अप्याः, आप इत्यन्तरिक्षनाम (निघं० १।३।८) अस्माद् ‘भवे छन्दसि’ पा० ४।४।११० इति यत्, अन्तरिक्षस्थाः” इति व्याख्यातवान्, तत्तु पदकारविरुद्धम्, पदपाठे ‘अपि याः’ इति विभिद्य दर्शनात्। भरतोऽपि ‘अपियाः अप्सु अन्तरिक्षे भवाः’ इत्येव व्याचष्टे। ३. समानेनाख्यानात् अत्र प्रथमपुरुषः। लोकेऽपि तथा दृश्यते, ‘य एवमकार्षीत् स त्वमिति’—इति भरतः।