वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡न् यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣯रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥५१२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वान् यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥५१२॥

मन्त्र उच्चारण
पद पाठ

प꣡रि꣢꣯ । इ꣣तः꣢ । सि꣣ञ्चत । सुत꣢म् । सो꣡मः꣢꣯ । यः । उ꣣त्तम꣢म् । ह꣣विः꣢ । द꣣धन्वा꣢न् । यः । न꣡र्यः꣢꣯ । अ꣣प्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣षा꣡व꣢ । सो꣡म꣢꣯म् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः ॥५१२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 512 | (कौथोम) 6 » 1 » 3 » 2 | (रानायाणीय) 5 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मनुष्यों को सोम के सेचनार्थ प्रेरित किया गया है।

पदार्थान्वयभाषाः -

प्रथम—सोम ओधधि के रस के पक्ष में। हे मनुष्यो ! (यः सोमः) जो सोमरस (उत्तमम्) उत्तम (हविः) हव्य अथवा भोज्य है, उस (सुतम्) अभिषुत सोमरस को (इतः) इस यज्ञवेदि से अथवा भोजनालय से (परि सिञ्चत) यज्ञाग्नि अथवा जाठराग्नि में चारों ओर सींचो। (नर्यः) मनुष्यों का हितकर्मा (यः) जो सोमरस (दधन्वान्) यजमान को अथवा पीनेवाले को धारण करता है और जिस (सोमम्) सोमरस को अभिषोता (अद्रिभिः) यज्ञिय सिलबट्टों से, तीव्रता कम करने के लिए (अप्सु अन्तः) जलों के अन्दर (आ सुषाव) अभिषुत करता है ॥ द्वितीय—अध्यात्मपक्ष में। हे मनुष्यो ! (यः सोमः) जो भक्तिरस, उपासनायज्ञ में (उत्तमं हविः) उत्कृष्टतम हवि है, उस (सुतम्) अभिषुत भक्तिरस को, तुम (इतः) इस हृदय से (परि सिञ्चत) चारों ओर प्रवाहित करो, (नर्यः) मनुष्यों का हितकर्ता (यः) जो भक्तिरस, (दधन्वान्) उपासक को धारण करता है, और जिस (सोमम्) भक्तिरस को, उपासनायज्ञ का यजमान आत्मा (अद्रिभिः) ध्यानरूप सिलबट्टों से (अप्सुः अन्तः) प्राणों के अन्दर (आ सुषाव) अभिषुत करता है ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे बाह्य यज्ञ में अथवा भोजन में सोम ओषधि का रस सिलबट्टों द्वारा अभिषुत करके जलों में मिलाया जाता है, वैसे ही अध्यात्मयज्ञ में भक्तिरस को ध्यानरूप सिलबट्टों से अभिषुत करके अपने जीवन का अङ्ग बनाना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जनान् सोमं सेक्तुं प्रेरयति।

पदार्थान्वयभाषाः -

प्रथमः—सोमौषधिरसपक्षे। हे मनुष्याः ! (यः सोमः) य सोमरसः (उत्तमम्) उत्कृष्टतमम् (हविः) हव्यं भोज्यं वा अस्ति तम् (सुतम्) अभिषुतं सोमरसम् (इतः२) अस्मात् यज्ञवेदिस्थलाद् भोजनालयाद् वा (परि सिञ्चत) यज्ञाग्नौ जाठराग्नौ वा परितः जुहुत। संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्’ अ० ६।३।१३३ इति दीर्घः। (नर्यः) नृभ्यो हितः (यः) सोमरसः (दधन्वान्) यजमानं पातारं वा धृतवान्। धन धान्ये जुहोत्यादिः। अत्र धारणार्थः। लिटि क्वसौ रूपम्। यं च (सोमम्) सोमरसम्, अभिषोता (अद्रिभिः) ग्रावभिः अभिषवपाषाणैः, तीव्रताया न्यूनीकरणाय (अप्सु अन्तः) जलेषु मध्ये (आ सुषाव) अभिषुणोति३ ॥ अथ द्वितीयः—अध्यात्मपरः। हे मनुष्याः ! (यः सोमः) यो भक्तिरसः, उपासनायज्ञे (उत्तमं हविः) उत्कृष्टतमं हव्यम् अस्ति तम् (सुतम्) अभिषुतं भक्तिरसम्, यूयम् (इतः) अस्मात् हृदयात् (परि सिञ्चत) परितः प्रवाहयत, (नर्यः) नराणां हितकर्ता (यः) भक्तिरसः (दधन्वान्) उपासितारं धृतवान् भवति, यं च (सोमम्) भक्तिरसम्, उपासनायज्ञस्य यजमानः आत्मा (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (अप्सु अन्तः) प्राणेषु मध्ये (आ सुषाव) आ सुनोति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

यथा ब्राह्मयज्ञे भोजने वा सोमौषधिरसो ग्रावभिरभिषुत्य जलेषु सम्मिश्र्यते तथैवाध्यात्मयज्ञे भक्तिरसो ध्यानरूपैर्ग्रावभिरभिषुत्य स्वजीवनाङ्गतां नेयः ॥२॥

टिप्पणी: १. ऋ० ९।१०७।१, य० १९।२ ऋषिः भारद्वाजः, साम० १३१३। २. परीतो षिञ्चत। संहितायां सिञ्चतौ परे ओकारश्छान्दसः। तथा हि, ‘तो षि’ ७।१ इति हि ऋक्तन्त्रप्रातिशाख्यम्। ‘इदं च रूपग्रहणम्। इतः सिञ्चत’ इत्यत्र सकारप्राप्तस्य विसर्जनीयस्य ग्रहणादोकारप्राप्तिः। परि इतः सिञ्चत, ‘परीतो षिञ्चत’। इति च तत्र विवरणम्। ३. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सोमौषधिविषये व्याख्यातवान्। तथाहि तत्र तत्कृतो भावार्थः—“मनुष्यैरुत्तमा ओषधीर्जले संस्थाप्य मथित्वाऽऽसवं निस्सार्यानेन यथायोग्यं जाठराग्निं सेचित्वा बलारोग्ये वर्द्धनीये” इति।