वांछित मन्त्र चुनें
आर्चिक को चुनें
667 बार पढ़ा गया

प꣡व꣢स्व दे꣣व꣡ आ꣢यु꣣ष꣡गिन्द्रं꣢꣯ गच्छतु ते꣣ म꣡दः꣢ । वा꣣यु꣡मा रो꣢꣯ह꣣ ध꣡र्म꣢णा ॥४८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । वायुमा रोह धर्मणा ॥४८३॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯स्व । दे꣣वः꣢ । आ꣣युष꣢क् । आ꣣यु । स꣢क् । इ꣡न्द्र꣢꣯म् । गच्छतु । ते । म꣡दः꣢꣯ । वा꣣युम् । आ । रो꣣ह । ध꣡र्म꣢꣯णा ॥४८३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 483 | (कौथोम) 5 » 2 » 5 » 7 | (रानायाणीय) 5 » 2 » 7


हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मारूप सोम से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे पवमान सोम ! हे पवित्रताकारी रसागार परब्रह्म ! (देवः) दिव्यगुणवाले आप (आयुषक्) उपासक मनुष्यों में समवेत होकर (पवस्व) प्रस्रुत होवो, आनन्द-रस को प्रवाहित करो। (ते मदः) आपका आनन्द-रस (इन्द्रम्) आत्मा को (गच्छतु) प्राप्त हो। आप (धर्मणा) अपने धारक बल से (वायुम्) मेरे प्राण पर (आरोह) आरूढ़ होवो, अर्थात् मेरे प्राण भी आपकी तरङ्ग से तरङ्गित हों ॥७॥

भावार्थभाषाः -

परमात्मा-रूप सोम से झरा हुआ आनन्द-रस तभी प्रभावकारी होता है, जब वह आत्मा, प्राण आदि में पूर्णतः व्याप जाता है ॥७॥

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मसोमः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे पवमान सोम ! हे पवित्रतासम्पादक रसागार परब्रह्म ! (देवः) दिव्यगुणः त्वम् (आयुषक्२) आयुषु उपासकेषु मनुष्येषु सक्तं यथा स्यात् तथा। आयवः इति मनुष्यनाम। निघं० २।३, षच समवाये। (पवस्व) प्रस्रव, आनन्दरसं प्रवाहय। (ते मदः) त्वज्जनितः आनन्दरसः (इन्द्रम्) आत्मानम् (गच्छतु) प्राप्नोतु। त्वम् (धर्मणा) स्वकीयधारकबलेन (वायुम्) प्राणम् (आरोह) आरूढो भव, मदीयाः प्राणा अपि त्वत्तरङ्गेण तरङ्गिता भवेयुरिति भावः ॥७॥

भावार्थभाषाः -

परमात्मरूपात् सोमात् प्रस्रुत आनन्दरसस्तदैव प्रभावकारी जायते यदा स आत्मप्राणादीन् पूर्णतो व्याप्नोति ॥७॥

टिप्पणी: १. ऋ० ९।६३।२२, ‘देवायुषगिन्द्रं’ इति पाठः। साम० १२३५। २. आयुषु मनुष्येषु सक्तः, मनुष्यैः सेव्यमानः इति वा—इति भ०। अनुषक्तं यथा भवति तथा—इति सा०। सत्यव्रतसामश्रमिणस्तु विवरणकारनाम्ना आहुः—“सचते रूपम्। आनुषक् आयुषक् इति शाखाभेदेन पठ्यते ‘आनुषगिति नामानुपूर्वस्य अनुषक्तो भवति’—इति वि०।” इति। परं मुद्रिते विवरणकारभाष्ये ‘आयुषक् सुजनमनाः’ इत्युपलभ्यते। ‘आयु-सक्’ इति पदपाठाद् भरतस्वामिव्याख्यानमेव समञ्जसं प्रतिभाति।