वांछित मन्त्र चुनें
आर्चिक को चुनें

घृ꣣त꣡व꣢ती꣣ भु꣡व꣢नानामभि꣣श्रि꣢यो꣣र्वी꣢ पृ꣣थ्वी꣡ म꣢धु꣣दु꣡घे꣢ सु꣣पे꣡श꣢सा । द्या꣡वा꣢पृथि꣣वी꣡ वरु꣢꣯णस्य꣣ ध꣡र्म꣢णा꣣ वि꣡ष्क꣢भिते अ꣣ज꣢रे꣣ भू꣡रि꣢रेतसा ॥३७८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥३७८॥

मन्त्र उच्चारण
पद पाठ

घृ꣣त꣡व꣢ती꣣इ꣡ति꣢ । भु꣡व꣢꣯नानाम् । अ꣣भिश्रि꣡या꣢ । अ꣣भि । श्रि꣡या꣢꣯ । उ꣣र्वी꣡इति꣢ । पृ꣣थ्वी꣡इति꣢ । म꣣धुदु꣡घे꣢ । म꣣धु । दु꣢घे꣣इ꣡ति꣢ । सु꣣पे꣡श꣢सा । सु꣣ । पे꣡श꣢꣯सा । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । व꣡रु꣢꣯णस्य । ध꣡र्म꣢꣯णा । वि꣡ष्क꣢꣯भिते । वि । स्क꣣भितेइ꣡ति꣢ । अ꣣ज꣡रे꣢ । अ꣣ । ज꣢रे꣢꣯इ꣡ति꣢ । भू꣡रि꣢꣯रेतसा । भू꣡रि꣢꣯ । रेत꣣सा ॥३७८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 378 | (कौथोम) 4 » 2 » 4 » 9 | (रानायाणीय) 4 » 3 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र के देवता द्यावापृथिवी हैं। इसमें कैसे द्युलोक और भूलोक किस प्रकार धृत हैं, यह वर्णन है।

पदार्थान्वयभाषाः -

(घृतवती) दीप्तिवाले और जलवाले, (भुवनानाम्) सब लोकों के (अभिश्रिया) शोभा-जनक (उर्वी) बहुत-से पदार्थों से युक्त, (पृथ्वी) विस्तीर्ण, (मधुदुघे) मधुर आदि रसों से भरनेवाले, (सुपेशसा) उत्कृष्ट सुवर्ण वा उत्कृष्ट रूप-रंग से युक्त, (अजरे) अजीर्ण, अच्छिन्न (भूरिरेतसा) बहुत वीर्य व जल को उत्पन्न करनेवाले (द्यावापृथिवी) द्युलोक और भूमिलोक (वरुणस्य) श्रेष्ठ जगदीश्वर, सूर्य वा वायु के (धर्मणा) आकर्षण, धारण आदि गुण से (विष्कभिते) विशेष रूप से धृत हैं ॥९॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि भूलोकविद्या और खगोलविद्या को भली-भाँति जानकर सूर्य, चन्द्रमा, नक्षत्र आदियों से तथा पृथिवी से यथायोग्य लाभ प्राप्त करें। वरुण परमेश्वर ही सूर्य, वायु आदि के द्वारा सब लोकों को आकर्षण, धारण आदि से स्थिर किये हुए है, इसलिए उसे भी कभी नहीं भूलना चाहिए ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ द्यावापृथिवी देवते। कीदृशे द्यावापृथिव्यौ कथं धृते स्त इत्याह।

पदार्थान्वयभाषाः -

(घृतवती) घृतवत्यौ, दीप्तिमत्यौ उदकवत्यौ वा। घृ क्षरणदीप्त्योः। घृतमित्युदकनाम जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (भुवनानाम्) सर्वेषां लोकानाम् (अभिश्रिया२) अभिश्रियौ अभितः सर्वतः श्रीः शोभा लक्ष्मीः याभ्यां ते, (ऊर्वी३) बहुपदार्थयुक्ते, (पृथ्वी) विस्तीर्णे, (मधुदुघे) मधुरादिरसैः प्रपूरिके, (सुपेशसा) शोभनं पेशः सुवर्णं रूपं वा ययोस्ते। पेशस् इति हिरण्यनाम रूपनाम च। निघं० १।२, ३।७। (अजरे) अजीर्णे, (भूरिरेतसा) भूरि बहु रेतो वीर्यम् उदकं वा याभ्यां ते। रेतः इत्युदकनाम। निघं० १।१२। (द्यावापृथिवी) द्युलोकपृथिवीलोकौ (वरुणस्य४) सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य, सूर्यस्य, वायोर्वा (धर्मणा) आकर्षणधारणादिगुणेन (विष्कभिते) विशेषेण धृते स्तः। घृतवती, उर्वी, पृथ्वी, द्यावापृथिवी इति सर्वत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति पूर्वसवर्णदीर्घः। अभिश्रिया सुपेशसा, भूरिरेतसा इति सर्वत्र प्रथमाद्विवचनस्य आकारादेशः। वरुणशब्दो निरुक्ते मध्यमे उत्तमे च स्थाने व्याख्यातः, तेन वायुः सूर्यश्च गृह्यते। ‘वरुणो वृणोतीति सतः’ निरु० १०।४ ॥९॥५

भावार्थभाषाः -

मनुष्यैर्भूगोलविद्यां खगोलविद्यां च सम्यग् विज्ञाय सूर्यचन्द्रनक्षत्रादिभ्यः पृथिव्याश्च यथायोग्यं लाभाः प्राप्तव्याः। वरुणः परमेश्वर एव सूर्यपवनादिद्वारा तान् सर्वान् लोकानाकर्षणधारणादिभिः स्थिरीकरोतीति सोऽपि कदाचिन्न विस्मर्तव्यः ॥९॥ ६

टिप्पणी: १. ऋ० ६।७०।१, य० ३४।४५। २. आश्रयणीये—इति वि०। अभिश्रयणीये—इति भ०। ३. उर्वी। उर्विति बहुनाम। अवयवबहुत्वाच्च बहुव्यपदेशः, बह्ववयवे—इति वि०। उर्वी विस्तीर्णे, पृथ्वी बहुकार्यरूपेण प्रथिते च—इति भ०। ४. (वरुणस्य) ‘सूर्यस्य वायोर्वा इति ऋ० ६।७०।१ भाष्ये, सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य’ इति च य० ३४।४५ भाष्ये—द०। ५. अत्र उर्वी, पृथ्वी, मधुदुघे, सुपेशसा, अजरे, भूरिरेतसा, धर्मणा, विष्कभिते एतेषां पदानामर्थाः ऋ० ६।७०।१ इत्यस्य, ‘अभिश्रिया’ इत्यस्य चार्थः य० ३४।४५ इत्यस्य दयानन्दभाष्याद् गृहीताः। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘भूमिसूर्यौ कीदृशौ स्तः’ इति विषये यजुर्भाष्ये च ईश्वरोपासनाविषये व्याख्यातः।