वांछित मन्त्र चुनें
आर्चिक को चुनें

च꣣र्षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣क्थ्या꣢३꣱मि꣢न्द्रं꣣ गि꣡रो꣢ बृह꣣ती꣢र꣣꣬भ्यनू꣢꣯षत । वा꣣वृधानं꣡ पु꣢रुहू꣣त꣡ꣳ सु꣢वृ꣣क्ति꣢भि꣣र꣡म꣢र्त्यं꣣ ज꣡र꣢माणं दि꣣वे꣡दि꣢वे ॥३७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतꣳ सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥३७४॥

मन्त्र उच्चारण
पद पाठ

च꣣र्षणीधृ꣡त꣢म् । च꣣र्षणि । धृ꣡त꣢꣯म् । म꣣घ꣡वा꣢नम् । उ꣣क्थ्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । गि꣡रः꣢꣯ । बृ꣣हतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । वावृधान꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । ज꣡र꣢꣯माणम् । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥३७४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 374 | (कौथोम) 4 » 2 » 4 » 5 | (रानायाणीय) 4 » 3 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह विषय है कि वह जगदीश्वर और राजा कैसा है, जिसकी हम स्तुति करें।

पदार्थान्वयभाषाः -

(चर्षणीधृतम्) मनुष्यों के धारणकर्ता, (मघवानम्) प्रशस्त ऐश्वर्यों के स्वामी, (उक्थ्यम्) प्रशंसनीय, (सुवृक्तिभिः) शुभ क्रियाओं से (वावृधानम्) वृद्ध, (पुरुहूतम्) बहुतों से पुकारे गये, (अमर्त्यम्) अमर कीर्तिवाले, (दिवेदिवे) प्रतिदिन (जरमाणम्) सत्कर्मकर्ताओं की प्रंशसा करनेवाले अथवा सत्कर्मों का उपदेश करनेवाले (इन्द्रम्) परमेश्वर वा राजा को (बृहतीः) महान् (गिरः) वेदवाणियाँ अथवा मेरी अपनी वाणियाँ (अभ्यनूषत) स्तुति अथवा प्रशंसा का विषय बनाती हैं ॥५॥ इस मन्त्र में अर्थश्लेष अलङ्कार है, विशेषणों के साभिप्राय होने से परिकर भी है ॥५॥

भावार्थभाषाः -

जैसे सब मनुष्यों का धारणकर्ता, शुभकर्मा, अमरकीर्ति, सत्कर्मों का उपदेष्टा परमेश्वर सबसे स्तुति किया जाता है, वैसे ही उन गुणों से युक्त राजा भी प्रजाओं की प्रशंसा का पात्र बनता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशः स जगदीश्वरो राजा वा यं वयं स्तुवीमहीत्याह।

पदार्थान्वयभाषाः -

(चर्षणीधृतम्) मनुष्याणां धर्त्तारम्, (मघवानम्) प्रशस्तैश्वर्यम्, (उक्थ्यम्) वक्तव्यप्रशंसम्, (सुवृक्तभिः२) शोभनाभिः क्रियाभिः, (वावृधानम्) वृद्धम्। वृधधातोर्लिटः कानच्। (पुरुहूतम्) बहुभिः आहूतम्, (अमर्त्यम्) अमरकीर्तिम्, (दिवेदिवे) दिने दिने (जरमाणम्) सत्कर्मकारिणो जनान् प्रशंसन्तम्। जरते स्तुतिकर्मा, जरिता इत्यस्य स्तोतृवाचिषु पाठात् निघं० ३।१६। यद्वा सत्कर्माणि उपदिशन्तम्। जरते गृणाति। निरु० ४।२३। (इन्द्रम्) परमेश्वरं राजानं वा (बृहतीः) बृहत्यः (गिरः) वेदवाचः यद्वा मदीया वाचः (अभ्यनूषत) अभि स्तुवन्ति ॥५॥३ अत्र अर्थश्लेषोऽलङ्कारः, विशेषणानां साभिप्रायत्वात् परिकरालङ्कारोऽपि ॥५॥

भावार्थभाषाः -

यथा सर्वेषां मानवानां धर्ता शोभनकर्माऽमरकीर्तिः सत्कर्मोपदेष्टा परमेश्वरः सर्वैः स्तूयते तथैव तादृशगुणविशिष्टो नृपतिरपि प्रजानां प्रशंसापात्रं जायते ॥५॥

टिप्पणी: १. ऋ० ३।५१।१। २. सुष्ठु शोभना वृक्तयो दुःखवर्जनानि यासु क्रियासु ताभिः—इति ऋ० १।५२।१ भाष्ये द०। सुवृक्तिभिः सुप्रवृत्ताभिः शोभनाभिः स्तुतिभिः—इति यास्कः (निरु० २।२४)। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं राजविषये व्याख्यातवान्।