वांछित मन्त्र चुनें
आर्चिक को चुनें

बृ꣣ह꣡द्भि꣢रग्ने अ꣣र्चि꣡भिः꣢ शु꣣क्रे꣡ण꣢ देव शो꣣चि꣡षा꣢ । भ꣣र꣡द्वा꣢जे समिधा꣣नो꣡ य꣢विष्ठ्य रे꣣व꣡त्पा꣢वक दीदिहि ॥३७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥३७॥

मन्त्र उच्चारण
पद पाठ

बृ꣣ह꣡द्भिः꣢ । अ꣣ग्ने । अ꣣र्चिभिः꣢ । शु꣣क्रे꣡ण꣢ । दे꣣व । शोचि꣡षा꣢ । भ꣣र꣡द्वा꣢जे । भ꣣र꣢त् । वा꣣जे । समिधानः꣢ । सम्꣣ । इधानः꣢ । य꣣विष्ठ्य । रेव꣢त् । पा꣣वक । दीदिहि ॥३७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 37 | (कौथोम) 1 » 1 » 4 » 3 | (रानायाणीय) 1 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (यविष्ठ्य) अतिशय युवा, (पावक) पवित्रकर्ता, (देव) दाता (अग्ने) तेजस्वी परमेश्वर ! (बृहद्भिः) महान् (अर्चिभिः) तेजों से, और (शुक्रेण) शुद्ध (शोचिषा) ज्ञान-प्रकाश से (भरद्वाजे) अपने आत्मा में बल भरनेवाले पुरुषार्थप्रिय मुझ स्तोता के अन्दर अथवा बल एवं उत्साह से सम्पन्न मेरे मन के अन्दर (समिधानः) प्रकाशित होते हुए आप (रेवत्) समृद्धिपूर्वक (दीदिहि) देदीप्यमान हों ॥३॥

भावार्थभाषाः -

मनुष्यों को पुरुषार्थी होकर ही परमेश्वर का आह्वान करना चाहिए। अकर्मण्य की प्रार्थना वह नहीं सुनता ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे यविष्ठ्य नित्यतरुण। अतिशयेन युवा यविष्ठः, स एव यविष्ठ्यः। युवशब्दाद् इष्ठन् प्रत्ययः। ततो नवसूर्तमर्तयविष्ठेभ्यो यत् अ० ५।४।२५ वा० इति स्वार्थे यत् प्रत्ययः। (पावक) पवित्रयितः, (देव) दातः (अग्ने) तेजस्विन् परमेश्वर ! (बृहद्भिः) महद्भिः (अर्चिभिः) तेजोभिः, (शुक्रेण) शुद्धेन। शुच्यते पवित्रीभवतीति शुक्रः। शुचिर् पूतीभावे धातोः ऋज्रेन्द्राग्र०’ उ० २।२९ इति रन्-प्रत्ययान्तो निपातः। (शोचिषा) ज्ञानप्रकाशेन च (भरद्वाजे२) भरन् बिभ्रद् वाजं बलं स्वात्मनि यः स भरद्वाजः पुरुषार्थ-प्रियः, तादृशे मयि स्तोतरि, यद्वा भरद्वाजे बलोत्साहसम्पन्ने मदीये मनसि। मनो वै भरद्वाज ऋषिः। श० ८।१।१।९। (समिधानः) प्रकाशमानः सन् (रेवत्) समृद्धियुक्तं यथा भवति तथा। धनवाचकाद् रयिशब्दान्मतुपि रयेर्मतौ बहुलम्’ अ० ६।१।३७ वा० इति सम्प्रसारणम्। (दीदिहि) देदीप्यस्व। दीदयतिः ज्वलतिकर्मा। निघं० १।१६ ॥३॥

भावार्थभाषाः -

मनुष्यैः पुरुषार्थिभिरेव भूत्वा परमेश्वर आह्वातव्यः। अकर्मण्यस्य प्रार्थनां स न कर्णे करोति ॥३॥

टिप्पणी: १. ऋ० ६।४८।७। रेवन्नः शुक्र दीदिहि इति पाठः। तदनन्तरं द्युमत् पावक दीदिहि’ इत्यधिकम्। २. अस्य मन्त्रस्य शंयुः ऋषिः, मन्त्रे च भरद्वाजस्य नाम। तदेतद् ऋषयो मन्त्रकर्तारः क्वचित् स्वकीयं नाम मन्त्रे प्रचिक्षिपुः इति ये मन्यन्ते तेषां मते कथं संगच्छेत? तत्समाधानं भरतस्वामी प्रोवाच—भरद्वाजे मम भ्रातरि इति भरद्वाजः शंयोर्भ्रातासीदिति तदीयोऽभिप्रायः। सायणोऽपि तथैव व्याचख्यौ। वस्तुतस्तु भरद्वाज इति यौगिकं नाम, अतो नात्रेतिहासः शङ्कनीयः।