वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣢ त्वा꣣ सो꣡म꣢स्य꣣ ग꣡ल्द꣢या꣣ स꣢दा꣣ या꣡च꣢न्न꣣हं꣡ ज्या꣢ । भू꣡र्णिं꣢ मृ꣣गं꣡ न सव꣢꣯नेषु चुक्रुधं꣣ क꣡ ईशा꣢꣯नं꣣ न या꣢चिषत् ॥३०७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या । भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥३०७॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । त्वा꣣ । सो꣡म꣢꣯स्य । ग꣡ल्द꣢꣯या । स꣣दा꣢꣯ । या꣡च꣢꣯न् । अ꣣हम् । ज्या꣣ । भू꣡र्णि꣢꣯म् । मृ꣣ग꣢म् । न । स꣡व꣢꣯नेषु । चु꣣क्रुधम् । कः꣢ । ई꣡शा꣢꣯नम् । न । या꣣चिषत् ॥३०७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 307 | (कौथोम) 4 » 1 » 2 » 5 | (रानायाणीय) 3 » 8 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगला मन्त्र इन्द्र परमात्मा को सम्बोधित किया गया है।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् ! (सोमस्य) शान्तरस के (गल्दया) प्रवाह के साथ (ज्या) जिह्वा द्वारा (त्वा) तुझसे (सदा) हमेशा (याचन्) याचना करता हुआ (अहम्) मैं (सवनेषु) बहुत से घृत द्वारा सिद्ध होनेवाले यज्ञों में (भूर्णिम्) अपने दूध-घी से भरण-पोषण करनेवाले (मृगम् न) गाय पशु के समान (सवनेषु) जीवन-यज्ञों में (भूर्णिम्) भरण-पोषण-कर्ता तथा (मृगम्) मन को शुद्ध करनेवाले तुझे मैं (न आचुक्रुधम्) क्रुद्ध न करूँ। सदा याचना से दाता क्रुद्ध क्यों न हो जाएगा, इसका उत्तर देते हैं— (ईशानम्) स्वामी से (कः) कौन (न याचिषत्) याचना नहीं करता ॥५॥ इस मन्त्र में ‘भूर्णिं मृगं न सवनेषु’ में श्लिष्टोपमालङ्कार है। ‘न’ उपमार्थक तथा निषेधार्थक दोनों है। जब ‘मृगं’ से सम्बद्ध होता है तब बाद में प्रयुक्त होने के कारण उपमार्थक है, और जब ‘सवनेषु’ से सम्बद्ध होता है तब पहले प्रयुक्त होने के कारण निषेधार्थक है। अभिप्राय यह है कि जैसे यज्ञ में बार-बार दूध-घी माँगने पर भी गाय क्रुद्ध नहीं होती, ऐसे ही मेरे बार-बार माँगने से आप क्रुद्ध न हों। ‘कः ईशानम् न याचिषत्-स्वामी से कौन नहीं माँगता’ इस सामान्य से अपने माँगने रूप विशेष का समर्थन होने से यहाँ अर्थान्तरन्यास अलङ्कार है ॥५॥

भावार्थभाषाः -

बार-बार भी याचना करके जगदीश्वर से सद्गुण, सदाचार आदि सबको प्राप्त करने चाहिएँ ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रं परमात्मानं प्रत्याह।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् ! (सोमस्य) शान्तरसस्य (गल्दया) गालनेन, स्रावणेन सह। गल स्रवणे, चुरादिः, भावे बाहुलकादौणादिको दा प्रत्ययः। ‘गालनेन’ इति निरुक्तम् ६।२४। (ज्या२) ज्यया जिह्वया। ‘सुपां सुलुक्०’ अ० ७।१।३९ इति तृतीयैकवचनस्य आकारादेशः। प्रजावयति शब्दानिति ज्या जिह्वा, तथा च निरुक्ते प्रत्यञ्चार्थे ‘प्रजावयती इषून्’ इति ज्याशब्दस्य निरुक्तिः प्रदर्शिता। (निरु० ९।१८)। अथ च श्रूयते ‘जि॒ह्वा ज्या भव॑ति॒’ इति अथ० ५।१८।८। (त्वा) त्वाम् (सदा) सर्वदा (याचन्) प्रार्थयमानः (अहम्) स्तोता (सवनेषु) बहुघृतसाध्येषु यज्ञेषु (भूर्णिम्) भरणपोषणकर्त्तारम्। बिभर्तीति भूर्णिः, डुभृञ् धारणपोषणयोः धातोः ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५३ इति निपातनाद् निःप्रत्ययः धातोरुत्वं च। (मृगम् न) गवादिपशुम् इव (सवनेषु) जीवनयज्ञेषु (भूर्णिम्) भरणपोषणकर्त्तारम् (मृगम्) मनसः शोधयितारम् त्वाम्। मार्ष्टि इति मृगः, मृजूष् शुद्धौ अदादिः। (न आ चुक्रुधम्) न समन्ततः कोपयेयम्। क्रुध क्रोधे धातोर्णिजन्तस्य लुङि रूपम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि अ० ६।४।७५’ इत्यडागमाभावः। ननु सदा याचनेन दाता किमिति न कोपिष्यतीत्याह—(कः) को जनः (ईशानम्) स्वामिनम् (न याचिषत्) न याचते ? सर्वोऽपि याचत एव इति काक्वा व्यज्यते, अतो ममापि याचने कोऽपराध इति भावः। याचिषत् इति याच् धातोर्लेटि रूपम् ॥ ऋचोऽस्या ऋग्वेदीयः पाठो यास्केनैवं व्याख्यातः—मा चुक्रुधं त्वां सोमस्य गालनेन सदा याचन्नहं गिरा गीत्या स्तुत्या। भूर्णिमिव मृगं न सवनेषु चुक्रुधम्। क ईशानं न याचिष्यत इति। निरु० ६।२५ ॥५॥ अत्र ‘भूर्णिं मृगं न सवनेषु’ इत्यत्र श्लिष्टोपमालङ्कारः। नकार उपमार्थीयः निषेधकश्च। ‘मृगं न’ इति मृगशब्देन सम्बद्धः उपरिष्टादुपचारत्वादुपमार्थीयः, ‘न सवनेषु’ इति सवनशब्देन सम्बद्धः पुरस्तादुपचारत्वान्निषेधार्थकः। ‘भूर्णिं मृगं न इव भूर्णिं मृगं त्वां सवनेषु न चुक्रुधम्’ इति वाक्ययोजना। यथा यज्ञेषु पुनः पुनर्घृतार्थं पयो याच्यमानोऽपि गवादिपशुर्न क्रुध्यति तद्वत् त्वमपि भूयो भूयो याच्यमानोऽपि क्रुद्धो मा भूरिति भावः। ‘क ईशानं न याचिषत्’ इति सामान्येन विशेषस्य स्वकीययाचनस्य समर्थनाद् अर्थान्तरन्यासोऽलङ्कारः३ ॥५॥

भावार्थभाषाः -

पुनः पुनरपि याचनेन जगदीश्वरात् सद्गुण-सद्वृत्तादिकं सर्वैः प्राप्तव्यम् ॥५॥

टिप्पणी: १. ऋ० ८।१।२०, ‘आ’ इत्यत्र ‘मा’ इति, ‘ज्या’ इत्यत्र च ‘गिरा’ इति पाठः। २. ज्या गिरा स्तुत्या च—इति वि०। ज्या स्तुत्या—इति भ०। सोमस्य गल्दया गालनेन आस्रावणेन, ज्या जयशीलया स्तुत्या च—इति सा०। ३. सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥—का० प्र० १०।१०९ इति तल्लक्षणात्।