वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣यं꣢ वां꣣ म꣡धु꣢मत्तमः सु꣣तः꣢꣫ सोमो꣣ दि꣡वि꣢ष्टिषु । त꣡म꣢श्विना पिबतं ति꣣रो꣡अ꣢ह्न्यं ध꣣त्त꣡ꣳ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ ॥३०६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरोअह्न्यं धत्तꣳ रत्नानि दाशुषे ॥३०६॥

मन्त्र उच्चारण
पद पाठ

अ꣣य꣢म् । वा꣣म् । म꣡धु꣢꣯मत्तमः । सु꣣तः꣢ । सो꣡मः꣢꣯ । दि꣡वि꣢꣯ष्टिषु । तं । अ꣣श्विना । पिबतम् । तिरो꣡अ꣢ह्न्यम् । ति꣣रः꣢ । अ꣣ह्न्यम् । धत्त꣢म् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 306 | (कौथोम) 4 » 1 » 2 » 4 | (रानायाणीय) 3 » 8 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र परमात्मा से अधिष्ठित आत्मा और मनरूप अथवा इन्द्र राजा से अधिष्ठित अध्यापक और उपदेशकरूप अश्विनों से याचना की गयी है।

पदार्थान्वयभाषाः -

हे (अश्विना) आत्मा और मन रूप अथवा अध्यापक और उपदेशक रूप अश्वी देवो ! (दिविष्टिषु) अध्यात्म-दीप्ति के यज्ञों में अथवा व्यवहार-यज्ञों में (अयम्) यह (मधुमत्तमः) अत्यन्त मधुर (सोमः) ज्ञान, कर्म, श्रद्धा, शान्ति आदि का रस अथवा सोमादि ओषधियों का रस (वाम्) तुम्हारे लिए (सुतः) मैंने तैयार किया है। (तिरोअह्न्यम्) पवित्रता में दिन को भी तिरस्कृत करनेवाले अर्थात् उज्ज्वल दिन से भी अधिक पवित्र (तम्) उस रस को, तुम (पिबतम्) पान करो, और (दाशुषे) देनेवाले मुझ यजमान के लिए (रत्नानि) उत्कृष्ट प्रेरणा, उत्कृष्ट संकल्प, उत्कृष्ट शिक्षा, उत्कृष्ट उपदेश आदि बहुमूल्य रमणीय धन (धत्तम्) प्रदान करो ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥

भावार्थभाषाः -

मन के शिवसंकल्पपूर्वक जीवात्मा जिस ज्ञान, कर्म, श्रद्धा, भक्ति आदि को परमात्मा के प्रति अर्पण की बुद्धि से करता है, वह बहुत फलदायक होता है। उसी प्रकार राष्ट्र में अध्यापक और उपदेशक के यथायोग्य सत्कार से उनके पास से बहुत अधिक ज्ञान, विज्ञान आदि प्राप्त किया जा सकता है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रेण परमात्मनाऽधिष्ठितौ आत्ममनोरूपौ, इन्द्रेण राज्ञाऽधिष्ठितौ अध्यापकोपदेशकरूपौ वाऽश्विनौ प्रार्थ्येते।१

पदार्थान्वयभाषाः -

हे (अश्विना) अश्विनौ, आत्ममनसी अध्यापकोपदेशकौ वा। (दिविष्टिषु३) अध्यात्मद्युतियज्ञेषु व्यवहारयज्ञेषु वा। दिवुरत्र द्युत्यर्थो व्यवहारार्थश्च, तदर्थेष्वेतयोरर्थयोरपि परिगणनात्। ‘दिविष्टिषु दिव एषणेषु’, इति निरुक्तम् ६।२२। (अयम्) एषः (मधुमत्तमः) अतिशयमधुरः (सोमः) ज्ञान-कर्म-श्रद्धा-शान्त्यादिरसः सोमाद्योषधिरसो वा (वाम्) युवाभ्याम् (सुतः) मयाऽभिषुतः अस्ति। (तिरोअह्न्यम्४) पवित्रतायाम् अह्नोऽपि तिरस्कर्तारम्, उज्ज्वलाद् दिवसादप्यधिकं पवित्रम्। तिरस्करोति अहः यः स तिरोअहः, स एव तिरोअह्न्यः। स्वार्थे यत्। ‘प्रकृत्यान्तः पादमव्यपरे’ अ० ६।१।११५ इति प्रकृतिभावः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। (तम्) रसम्, युवाम् (पिबतम्) आस्वादयतम्, (दाशुषे) दत्तवते च मह्यं यजमानाय (रत्नानि) सत्प्रेरणसत्संकल्पसच्छिक्षणसदुपदेशादिरूपाणि महार्घाणि रमणीयानि धनानि। रत्नानां रमणीयानां धनानाम् इति निरुक्तम्। ७।१५। (धत्तम्) प्रयच्छतम् ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥

भावार्थभाषाः -

मनसः शिवसंकल्पपूर्वकं जीवात्मना यज्ज्ञानकर्मश्रद्धाभक्त्यादिकं परमात्मार्पणबुद्ध्या क्रियते तद् बहुफलदायकं जायते। तथैव राष्ट्रेऽध्यापकोपदेशकयोर्यथायोग्यसत्कारेण तत्सकाशाद् बहुज्ञानविज्ञानादिकं प्राप्तुं शक्यते ॥४॥५

टिप्पणी: १. एषापि ऋग् यद्यप्यश्विसम्बद्धा, तथाप्यस्या देवता इन्द्रः परिगणितः। इन्द्राधीनत्वादश्विनोः तयोः स्तुत्यापीन्द्र एव स्तुतः इति समाधेयम्। ऋग्वेदे त्वस्या ऋचः साक्षाद् अश्विनावेव देवते पठिते। २. ऋ० १।४७।१ देवते अश्विनौ। ‘सोमो दिविष्टिषु’ इत्यत्र ‘सोम ऋतावृधा’ इति पाठः। ३. दिवं याभिर्गम्यते ता दिविष्टयः स्वर्गफलाः ज्योतिष्टोमाद्याः। यागसंयोगसंपत्तिरित्यर्थः—इति वि०। दिविष्टिषु यज्ञेषु—इति भ०। दिव एषणेषु यज्ञेषु—इति सा०। ४. तिरोअह्न्यम् तृतीयसवनिकम्। अथवा तिर इति प्राप्तनाम। अहनि भवः अह्न्यः। प्राप्ते यागाहनि भवः तिरोअह्न्यः—इति वि०। तिरः सतः इति प्राप्तस्य नामनी। प्राप्ते सुत्याहे भवः तम्—इति भ०। तिरो अह्न्यम् तिरोभूते पूर्वस्मिन् दिनेऽभिषुतम्—इति सा०। ऋ० १।४५।१० भाष्ये सायण एवमाह—“पूर्वस्मिन् अह्नि अभिषुतो यः सोमः उत्तरेऽहनि हूयते तस्यैतन्नामधेयम्” इति। “तिरश्च तदहश्च तिरोहः तस्मिन् भवम्”, इति ऋ० १।४७।१ भाष्ये द०। ५. ऋग्वेदभाष्ये दयानन्दर्षिर्मन्त्रमेतं सभासेनाधीशयोः पक्षे व्याख्यातवान्।