वांछित मन्त्र चुनें
आर्चिक को चुनें

क꣣दा꣢ च꣣न꣢ स्त꣣री꣡र꣢सि꣣ ने꣡न्द्र꣢ सश्चसि दा꣣शु꣡षे꣢ । उ꣢पो꣣पे꣡न्नु म꣢꣯घ꣣वन्भू꣢य꣣ इ꣢꣯न्नु ते꣣ दा꣡नं꣢ दे꣣व꣡स्य꣢ पृच्यते ॥३००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥३००॥

मन्त्र उच्चारण
पद पाठ

क꣣दा꣢ । च꣣ । न꣢ । स्त꣣रीः꣢ । अ꣣सि । न꣢ । इ꣣न्द्र । सश्चसि । दाशु꣡षे꣢ । उ꣡पो꣢꣯प । उ꣡प꣢꣯ । उ꣣प । इ꣢त् । नु । म꣣घवन् । भू꣡यः꣢꣯ । इत् । नु । ते꣣ । दा꣡न꣢꣯म् । दे꣣व꣡स्य꣢ । पृ꣣च्यते ॥३००॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 300 | (कौथोम) 4 » 1 » 1 » 8 | (रानायाणीय) 3 » 7 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि परमेश्वर की अर्चना कभी निष्फल नहीं होती।

पदार्थान्वयभाषाः -

हे (इन्द्र) सुखप्रदाता परमेश्वर ! आप (कदाचन) कभी (स्तरीः) वन्ध्या गौ के समान निष्फल (न असि) नहीं होते, प्रत्युत (दाशुषे) आत्मदान करनेवाले उपासनायज्ञ के यजमान को फल देने के लिए (सश्चसि) प्राप्त होते हो। हे (मघवन्) धनों के स्वामी ! (देवस्य ते) तुझ दानादिगुणयुक्त का (दानम्) दान (इत् नु) निश्चय ही (भूयः इत्) पुनः-पुनः (उप-उप पृच्यते) यजमान को प्राप्त होता है, अवश्य प्राप्त होता है ॥८॥

भावार्थभाषाः -

जो स्वयं को परमेश्वर के लिए समर्पित कर देता है, उसे वह दुधारू गाय के समान सदा फल प्रदान करता रहता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

परमेश्वरस्यार्चनं कदापि निष्फलं न भवतीत्युच्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) सुखप्रदातः परमेश्वर ! त्वम्, (कदाचन) कदाचित्, (स्तरीः२) निवृत्तप्रसवा गौरिव निष्फलः (न असि) न भवसि, प्रत्युत (दाशुषे) आत्मसमर्पकाय अन्तर्यज्ञस्य यजमानाय, तस्मै फलम् दातुमित्यर्थः। दाशृ दाने धातोः क्वसुप्रत्यये चतुर्थ्येकवचने रूपम्। ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ अ० २।३।१४ इति चतुर्थी। (सश्चसि) प्राप्नोषि। सश्चतिः गतिकर्मा। निघं० २।१४। हे (मघवन्) धनपते ! (देवस्य) दानादिगुणयुक्तस्य (ते) तव (दानम्) दीयमानमैश्वर्यम् (इत् नु) अवश्यमेव (भूयः इत्) पुनः पुनरपि (नु) क्षिप्रमेव (उप-उप पृच्यते) यजमानेन संसृज्यते, संसृज्यते। ‘प्रसमुपोदः पादपूरणे’ अ० ८।१।६ इति उपोपसर्गस्य पादपूरणे द्वित्वमुक्तम्। वस्तुतस्तु उपपृच्यते उपपृच्यते इति द्विरुक्त्यात्र संसर्गस्य क्षिप्रत्वमाधिक्यं च द्योत्यते ॥८॥३

भावार्थभाषाः -

यः परमेश्वरायात्मानं समर्पयति तत्कृते स सेविता दोग्ध्री गौरिव सद्यः फलं प्रयच्छति ॥८॥

टिप्पणी: १. ऋ० ८।५१।७, ऋषिः श्रुष्टिगुः काण्वः। य० ३।३४, ऋषिः मघुच्छन्दाः। २. स्तरीति निवृत्तप्रसवा गौः। तन्न भवसि। धुक्षसे एव सदा कामानिति—इति भ०। स्तरीः हिंसको नासि। यद्वा स्तरीर्निवृत्तप्रसवा गौस्तथाविधो न भवसि। सा यथा वत्साभावात् गृहं प्रति नागच्छति न तथा करोषीत्यर्थः—इति सा०। न स्तृणासि न क्रुध्यसि—इति य० ३।३४ भाष्ये उवटः, ‘स्तृञ् हिंसायाम्’, स्तृणातीति स्तरीः, हिंसको नासि—इति च महीधरः। ३. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरस्य कर्मफलदातृत्वविषये व्याख्यातः।