श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣ न꣡क्तं꣢ दिशस्यतम् । मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥२८७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम् । मा वाꣳ रातिरुप दसत्कदाचनास्मद्रातिः कदाचन ॥२८७॥
श꣡ची꣢꣯भिः । नः꣣ । शचीवसू । शची । वसूइ꣡ति꣢ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । दि꣣शस्यतम् । मा꣢ । वा꣣म् । रातिः꣢ । उ꣡प꣢꣯ । द꣣सत् । कदा꣢ । च꣣ । न꣣ । अ꣣स्म꣢त् । रा꣣तिः꣢ । क꣣दा꣢ । च꣣ । न꣢ ॥२८७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में अश्वियुगल देवता हैं। उनसे याचना की गयी है।
हे (शचीवसू) कर्म-रूप धनवाले परमात्मा-जीवात्मा, गुरु शिष्य, अध्यापक-उपदेशक, वैद्य-शल्यचिकित्सक, राजा-राजमन्त्री, सभापति-सेनापति आदि अश्वीदेवो ! तुम (शचीभिः) अपने-अपने कर्मों से (नः) हमें (दिवा नक्तम्) दिन-रात (दिशस्यतम्) अपनी-अपनी देनें प्रदान करो। (वाम्) तुम्हारा (रातिः) दान (कदा च न) कभी (मा उपदसत्) समाप्त न हो, वैसे ही (अस्मत्) हमारे अन्दर से (रातिः) दान का गुण (कदा च न) कभी (मा उपदसत्) समाप्त न हो, अर्थात् हम भी निरन्तर दान में संलग्न रहें ॥५॥ इस मन्त्र में ‘शची, शची’, ‘राति, रातिः’, तथा ‘कदा च न, कदा च न’ में लाटानुप्रास अलङ्कार है ॥५॥
उक्त अश्वी-युगल जैसे अपनी-अपनी आध्यात्मिक, वैयक्तिक, सामाजिक, राष्ट्रिय, शिल्पात्मक, चिकित्सात्मक आदि देनों से हमारा उपकार करते रहें, उसी प्रकार हम भी अपनी-अपनी योग्यता के अनुसार दूसरों का उपकार करें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथाश्विनौ देवते। तौ प्रार्थ्येते।
हे (शचीवसू) कर्मधनौ अश्विनौ२ परमात्मजीवात्मानौ, गुरुशिष्यौ, अध्यापकोपदेशकौ, वैद्यशल्यचिकित्सकौ, राजामात्यौ, सभासेनेशौ च ! युवाम् (शचीभिः) स्वीयैः स्वीयैः कर्मभिः। शची इति कर्मनाम। निघं० २।१। (नः) अस्मभ्यम् (दिवा नक्तम्) अहनि रात्रौ चापि (दिशस्यतम्३) दानं प्रयच्छतम्। अयं दानार्थः दिशस् शब्दः कण्ड्वादिषु पठितव्यः। ‘कण्ड्वादिभ्यो यक्, अ० ३।१।२७’ इति यक्। (वाम्) युवयोः (रातिः) दानम् (कदा च न) कदाचित् (मा उपदसत्) न समाप्येत। उपपूर्वाद् दसु उपक्षये धातोर्लेटि रूपम् तथैव (अस्मत्) अस्मत्सकाशात् (रातिः) दानगुणः (कदा च न) कदाचित्, मा उपदसत् न नश्येत्। वयमपि सततदानरताः भवेमेत्यर्थः ॥५॥४ अत्र ‘शची, शची’ ‘राति, रातिः’, ‘कदा च न, कदा च न’ इति लाटानुप्रासः ॥५॥
उक्तौ अश्विनौ यथा स्वेन स्वेनाध्यात्मिकेन वा, वैयक्तिकेन वा, सामाजिकेन वा राष्ट्रियेण वा, शिल्पात्मकेन वा, चिकित्सात्मकेन वा दानेनास्मानुपकुर्युः, तथैव वयमपि स्वस्वयोग्यतानुसारमन्यानुपकुर्याम ॥५॥