वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢र꣣ स्तो꣢मा꣣स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥२५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥२५१॥

मन्त्र उच्चारण
पद पाठ

उ꣢द् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥२५१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 251 | (कौथोम) 3 » 2 » 1 » 9 | (रानायाणीय) 3 » 2 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि मेरे कैसे स्तोत्र किस प्रकार परमात्मा के प्रति उठ रहे हैं।

पदार्थान्वयभाषाः -

(त्ये) वे (मधुमत्तमाः) अत्यन्त मधुर, (सत्राजितः) सत्यजयी, (धनसाः) स्तोता को सद्गुणरूप धन प्रदान करनेवाले, (अक्षितोतयः) अक्षय रक्षावाले, (वाजयन्तः) स्तोता को आत्मबल प्रदान करनेवाले, (गिरः) परमेश्वर की अर्चना में साधनभूत (स्तोमासः) मेरे स्तोत्र (रथाः इव) अन्तरिक्ष में चलनेवाले विमान-रूप रथों के समान (उद्-ईरते उ) उठ रहे हैं। जो विमान-रूप रथ भी (सत्राजितः) समवेत शत्रुओं को जीतने में साधनभूत, (धनसाः) स्थानान्तर से धन को लाने में साधनभूत, (अक्षितोतयः) अक्षय रक्षा के साधनभूत, (वाजयन्तः) अन्न आदि को देशान्तर में पहुंचानेवाले तथा (मधुमत्तमाः) अतिशय मधुर गतिवाले होते हैं ॥९॥ इस मन्त्र में श्लिष्टोपमालङ्कार है ॥९॥

भावार्थभाषाः -

जगदीश्वर की महिमा गाने के लिए मेरी जिह्वा मधुर-मधुर स्तोत्रों को उठा रही है, जैसे विमान-चालक मधुर गतिवाले विमान यानों को ऊपर उठाता है ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मदीयाः कीदृशाः स्तोमाः कथं परमात्मानं प्रत्युद्गच्छन्तीत्याह।

पदार्थान्वयभाषाः -

(त्ये) ते (मधुमत्तमाः) अतिशयेन मधुराः, (सत्राजितः) सत्यजितः। सत्रा इति सत्यनाम। निघं० ३।१०। (धनसाः) धनं सद्गुणरूपं स्तोत्रे सनन्ति प्रयच्छन्ति प्रापयन्ति ये ते। षणु दाने धातोः ‘जनसनखनक्रमगमो विट्’ अ० ३।२।६७ इति विट्। ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्याकारान्तादेशः। (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा येषां ते, (वाजयन्तः) स्तोतुः वाजम् आत्मबलं जनयन्तः। वाज इति बलनाम। निघं० २।९। वाजं बलं कुर्वन्तीति वाजयन्ति, शतरि वाजयन्तः। (गिरः२) अर्चनसाधनीभूताः। गृणन्ति अर्चन्ति यैस्ते। गृणातिः अर्चतिकर्मा। निघं० ३।१४। (स्तोमासः) मदीयाः, स्तोमाः, मम स्तोत्राणि (रथाः इव) विमानयानानीव (उद्-ईरते उ) उद्गच्छन्ति खलु। ईर गतौ कम्पने च अदादिः। विशेषणानि रथपक्षेऽपि योजनीयानि। रथा अपि कीदृशाः ? (सत्राजितः) सीदन्ति ये ते सत्राः समवेताः शत्रवस्तान् जयन्ति एभिस्ते। षद्लृ धातोरौणादिके ‘त्र’ प्रत्यये सत्रशब्दः सिध्यति। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (धनसाः) धनं सन्वन्ति आहरन्ति यैस्ते, (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा यैस्ते अक्षीणरक्षाः, (वाजयन्तः) अन्नादिकं देशान्तरं प्रापयितुं चेष्टमानाः। वाज इत्यन्ननाम। निघं० २।७। (मधुमत्तमाः) अतिशयमधुरगतयः ॥९॥ अत्र श्लिष्टोपमालङ्कारः ॥९॥

भावार्थभाषाः -

जगदीश्वरस्य महिमानं गातुं मदीया रसना मधुरमधुरान् स्तोमान् उदीरयति, यथा विमानचालको मधुरगतीनि विमानयानान्यूर्ध्वं नयति ॥९॥

टिप्पणी: १. ऋ–० ८।३।१५, साम० १३६२, अथ० २०।१०।१; २०।५९।१। २. ‘त्ये गिरः’ इति न संगच्छते, लिङ्गभेदात्। अतो ‘गिरः’ इति ‘स्तोमासः’ इत्यस्य विशेषणत्वेनास्माभिः स्वीकृतम्। भरतस्तु उदीरते उदीरयन्ति, स्तोमास स्तोतारः मधुमत्तमाः रसवत्तमाः गिरः स्तुतीः इति समाधत्ते। सायणः ‘गिरः’ आप्रगीताः शस्त्ररूपा वाचः, ‘स्तोमास’ प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च इति व्याचष्टे।