वांछित मन्त्र चुनें
आर्चिक को चुनें

न꣢ कि꣣ष्टं꣡ कर्म꣢꣯णा नश꣣द्य꣢श्च꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् । इ꣢न्द्रं꣣ न꣢ य꣣ज्ञै꣢र्वि꣣श्व꣡गू꣢र्त꣣मृ꣡भ्व꣢स꣣म꣡धृ꣢ष्टं धृ꣣ष्णु꣡मोज꣢꣯सा ॥२४३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥२४३॥

मन्त्र उच्चारण
पद पाठ

नः꣢ । किः꣣ । तम्꣢ । क꣡र्म꣢꣯णा । न꣣शत् । यः꣢ । च꣣का꣡र꣢ । स꣣दा꣡वृ꣢धम् । स꣣दा꣢ । वृ꣣धम् । इ꣡न्द्र꣢꣯म् । न । य꣣ज्ञैः꣢ । र्वि꣣श्व꣡गू꣢र्तम् । वि꣣श्व꣢ । गू꣣र्तम् । ऋ꣡भ्व꣢꣯सम् । अ꣡धृ꣢꣯ष्टम् । अ । धृ꣣ष्टम् । धृष्णु꣢म् । ओ꣡ज꣢꣯सा ॥२४३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 243 | (कौथोम) 3 » 2 » 1 » 1 | (रानायाणीय) 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

(यः) जो मनुष्य (चकार) महत्त्वपूर्ण कर्मों को करता है, वह भी (तम्) उस प्रसिद्ध (सदावृधम्) सदा बढ़ानेवाले, (विश्वगूर्तम्) सबसे स्तुति किये जानेवाले, (ऋभ्वसम्) बहुत विशाल अर्थात् सर्वव्यापक, सूर्य-किरणों को चन्द्रादिलोकों में भेजनेवाले, (अधृष्टम्) किसी से पराजित न होनेवाले, और (ओजसा) अपने बल से (धृष्णुम्) कामादि शत्रुओं को परास्त करनेवाले, (इन्द्रम्) परमेश्वर की (नकिः) न तो (कर्मणा) वीरतापूर्ण कर्म में, (न) न ही (यज्ञैः) परोपकार आदि यज्ञों में (नशत्) बराबरी कर सकता है ॥१॥

भावार्थभाषाः -

संसार में परमेश्वर के जो वीरतापूर्ण कार्य और परोपकार के कार्य हैं, उनमें उसकी बराबरी का या उससे अधिक न कोई उत्पन्न हुआ है, न भविष्य में उत्पन्न होगा ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो महिमानमाह।

पदार्थान्वयभाषाः -

यः मनुष्यः (चकार) महत्त्वपूर्णानि कर्माणि करोति, सोऽपि (तम्) प्रसिद्धम् (सदावृधम्) सदा वर्धयितारम्, (विश्वगूर्तम्२) सर्वैः स्तुतम्। गूर्तम् इति गृणातेः स्तुत्यर्थस्य निष्ठायां रूपम्। ‘बहुलं छन्दसि’ अ० ७।१।१०३ इति धातोः ऋकारस्य उकारादेशः। (ऋभ्वसम्३) उरुभूतम्, सूर्यकिरणानां चन्द्रादिलोकेषु प्रक्षेप्तारं वा। ऋभ्वम् उरुभूतम् इति यास्कः। नि० ११।१९। ऋभ्व एव ऋभ्वसः, स्वार्थे बाहुलकादौणादिकोऽसच् प्रत्ययः। यद्वा ऋभवः सूर्यरश्मयः, तान् पृथिवीचन्द्रमङ्गलादिलोकेषु अस्यति क्षिपतीति तम्। आदित्यरश्मयोऽपि ऋभव उच्यन्ते इति निरुक्तम्। ११।१४। (अधृष्टम्) केनापि अनभिभूतम्, (ओजसा) स्वबलेन (धृष्णुम्) कामादिशत्रूणां धर्षकम् (इन्द्रम्) परमेश्वरम् (नकिः) नैव (कर्मणा) वीरतापूर्णेन कृत्येन, (न) नापि (यज्ञैः) परोपकारादिभिः (नशत्) व्याप्नोति, तत्तुल्यो भवितुर्महति। नशत् इति व्याप्तिकर्मसु पठितम्। निघं० २।१८। ॥१॥

भावार्थभाषाः -

जगति परमेश्वरस्य यानि वीरकृत्यानि परोपकारकर्माणि च सन्ति तेषु तत्तुल्यस्तदधिको वान्यः कोऽपि न जातो न जनिष्यते ॥१॥

टिप्पणी: १. ऋ० ८।७०।३, अथ० २०।९२।१८। उभयत्र ‘धृष्णुमोजसा’ इत्यत्र ‘धृष्ण्वोजसम्’ इति पाठः। साम० ११५५। २. विश्वैः स्तुतम्, गृणातेर्गूर्तः—इति भ०। सर्वैः स्तुतम्—इति सा०। ३. महान्तम्—इति वि०, सा०। महान्तम्, ऋभु भवति इति ऋभ्वसः—इति भ०। (ऋभ्वसम्) उरु भासमानम्। उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः—इति ऋ० १।५६।१ भाष्ये सा०।