वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न्ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥२४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥२४०॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣣वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥२४०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 240 | (कौथोम) 3 » 1 » 5 » 8 | (रानायाणीय) 3 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर और राजा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमेश्वर वा राजन् ! (त्वं हि) आप (चेरवे) मुझ पुरुषार्थी के हित के लिए (आ इहि) आइए। (वसुत्तये) मुझ धन के दानी के लिए (भगम्) धन (विदाः) प्राप्त कराइए। हे (मघवन्) ऐश्वर्यशालिन् ! आप(गविष्टये) मुझ प्रशस्त इन्द्रिय, पृथिवीराज्य, विद्याप्रकाश आदि के अभिलाषी के लिए (उद्वावृषस्व) धन, विद्या आदि की अतिशय पुनःपुनः वर्षा कीजिए। आप (अश्वमिष्टये) घोड़े, बल, वेग, प्राण आदि के इच्छुक मेरे लिए (उद्वावृषस्व) अतिशयरूप सेपुनःपुनः इन वस्तुओं को बरसाइए ॥८॥ इस मन्त्र में श्लेषालङ्कार है। आ, जान, बरसा इन सब क्रियाओं का एक कर्ताकारक से सम्बन्ध होने के कारण दीपक अलङ्कार भी है। ‘ष्टय, ष्टये में छेकानुप्रास और द्वितीय तथा चतुर्थ पाद के अन्त में अये होने से अन्त्यानुप्रास भी है ॥८॥

भावार्थभाषाः -

परमेश्वर और राजा आदि राज्याधिकारीगण उसी की सहायता करते हैं, जो ‘चरैवेति चरैवेति’ ‘पुरुषार्थ करो, पुरुषार्थ करो।‘ (ए० ब्रा० ७।३।३) के उपदेश को अपने जीवन में चरितार्थ करता है और पुरुषार्थ से धन कमाकर सत्पात्रों में उसका दान भी करता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरो राजा च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमेश्वर राजन् वा ! (त्वं हि) त्वं खलु (चेरवे२) चरतीति चेरुः तस्मै संचरणकर्त्रे पुरुषार्थिने मह्यम् (आ इहि) आगच्छ, (वसुत्तये३) वसुदानकर्त्रे मह्यम्। वसुपूर्वाद् डुदाञ् धातोः क्तिनि निरुपसर्गत्वेऽपि छान्दसत्वात् ‘अच उपसर्गात्तः’ अ० ७।४।४७ इत्यनेन विहितस्तकारादेशो भवति। (भगम्) वसु (विदाः) लम्भय। विद्लृ लाभे धातोरन्तर्भावितण्यर्थात् लेटि सिपि ‘लेटोऽडाटौ’ अ० ३।४।९४ इति आडागमः। हे (मघवन्) ऐश्वर्यशालिन् ! त्वम् (गविष्टये४) गवाम् इन्द्रिय-पृथिवीराज्य-विद्याप्रकाशानाम् इष्टयः इच्छाः यस्य स गविष्टिः तस्मै मह्यम् (उद्वावृषस्व५) उद्वरीवृष्यस्व धनविद्यादिकम् अतिशयेन पुनः पुनः उद्वर्षय। अत्र यङि छान्दसत्वात् ‘रीगृदुपधस्य च’ अ० ७।४।९० इति प्राप्तो रीगागमो न भवति। त्वम् (अश्वमिष्टये६) अश्वम् तुरगबलवेगप्राणादिकम् इच्छतीति अश्वमिष्टिः तस्मै मह्यम्। अत्र समासे द्वितीयाया अलुक् छान्दसः। (उद्वावृषस्व) अतिशयेन पुनःपुनरुद्वर्षय ॥८॥ अत्र श्लेषालङ्कारः। ‘एहि, विदाः, उद्वावृषस्व’, इति सर्वासां क्रियाणामेककर्तृकारकसम्बन्धाद् दीपकमपि। ‘ष्टय, ष्टये’ इति छेकानुप्रासः, द्वितीय-चतुर्थपादान्ते ‘अये, अये’ इति श्रवणादन्त्यानुप्रासश्च ॥८॥

भावार्थभाषाः -

परमेश्वरो राजादयो राज्याधिकारिणश्च तस्यैव साहाय्यं कुर्वन्ति यः ‘चरैवेति चरैवेति’, (ऐ० ब्रा० ७।३।३) इत्युपदेशं स्वजीवने चरितार्थयति, पुरुषार्थेन च धनं संचित्य सत्पात्रेषु तस्य दानमपि करोति ॥८॥

टिप्पणी: १. ऋ० ८।६१।७, साम० १५८१। २. चेरुः चेतयिता। ज्ञातुर्मम भगस्यार्थाय—इति वि०। चेरुश्चरतेः, आचरते कर्माणि—इति भ०। कर्मपराचारवते मह्यम्—इति सा०। ३. वसूनि हविर्लक्षणानि ददाति इति वसुत्तिः हव्यदातिर्यजमानः तस्मै—इति भ०। धनदानं वसुत्तिः, तस्मै धनदानार्थम् इति वि०। ४. गविष्टौ गवाम् इन्द्रियपृथिवीराज्यविद्याप्रकाशानाम् इष्टयो यस्मिंस्तस्मिन् इति ऋ० १।९१।२३ भाष्ये द०। इषु इच्छायाम् इत्यस्येदं रूपम्। गोकामाय इत्यर्थः—इति वि०। गवामन्वेषणाय—इति भ०। गाः इच्छते मह्यम्—इति सा०। ५. वृषु तृषु मृषु सेचने इत्यस्येदं रूपम्। सेवनं च क्षरणम्। क्षर देहि इत्यर्थः—इति वि०। उद्युक्तो भव—इति भ०। आसिञ्चस्व देहीत्यर्थः—इति सा०। ६. अश्वैषणावते मह्यम्—इति सा०। अश्वान्वेषणाय—इति भ०।