वांछित मन्त्र चुनें
आर्चिक को चुनें

ऋ꣣जुनीती꣢ नो꣣ व꣡रु꣢णो मि꣣त्रो꣡ न꣢यति वि꣣द्वा꣢न् । अ꣣र्यमा꣢ दे꣣वैः꣢ स꣣जो꣡षाः꣢ ॥२१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऋजुनीती नो वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः ॥२१८॥

मन्त्र उच्चारण
पद पाठ

ऋ꣣जुनी꣢ती । ऋ꣣जु । नीती꣢ । नः꣣ । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣣यति । विद्वा꣢न् । अ꣣र्यमा꣢ । दे꣣वैः꣢ । स꣣जो꣡षाः । स꣣ । जो꣡षाः꣢꣯ ॥२१८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 218 | (कौथोम) 3 » 1 » 3 » 5 | (रानायाणीय) 2 » 11 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह प्रार्थना है कि इन्द्र से अधिष्ठित वरुण, मित्र आदि हमें सरल मार्ग से ले चलें।

पदार्थान्वयभाषाः -

प्रथम—अध्यात्म के पक्ष में। हे इन्द्र परमात्मन् ! आपकी सहायता से (देवैः) चक्षु आदि इन्द्रियों के साथ (सजोषाः) प्रीतिवाला, (विद्वान्) ज्ञानी (वरुणः) पापों से निवारण करनेवाला जीवात्मा, (मित्रः) प्राण, और (अर्यमा) मन (नः) हमें (ऋजुनीती) सरल धर्ममार्ग से (नयति) ले चलें ॥ द्वितीय—राष्ट्र के पक्ष में। हे इन्द्र राजन् ! (देवैः) अपने-अपने अधिकार में व्यवहार करनेवाले राजपुरुषों के साथ (सजोषाः) प्रीतिवाला अर्थात् अनुकूलता रखनेवाला (विद्वान्) विद्वान् विद्यासभाध्यक्ष, (वरुणः) शत्रुनिवारक, शस्त्रास्त्रधारी सेनाध्यक्ष, (मित्रः) कुत्सित आचरणरूप मृत्यु से त्राण करनेवाला धर्म-सभा का अध्यक्ष और (अर्यमा) न्यायसभा का अध्यक्ष (नः) हम प्रजाजनों को (ऋजुनीती) सरल धर्ममार्ग से (नयति) ले चलें ॥ तृतीय—विद्वान् के पक्ष में। (देवैः) विद्या और व्रत-शिक्षा का दान करनेवाले सब अध्यापकों से (सजोषाः) सामञ्जस्य रखता हुआ (वरुणः) श्रेष्ठ गुण-कर्म-स्वभाववाला, छात्रों द्वारा आचार्यरूप में वरण किया गया व छात्रों को शिष्यरूप से वरनेवाला, (मित्रः) पापरूप मरण से त्राण करानेवाला, (अर्यमा) न्यायकारी (विद्वान्) विद्वान् आचार्य (नः) हम शिष्यों को (ऋजुनीती) सरल विद्या-दान और व्रत-पालन करने की नीति से (नयति) आगे ले चले, अर्थात् हमें सुयोग्य विद्या-व्रत-स्नातक बनाये ॥५॥ इस मन्त्र में श्लेषालङ्कार है ॥५॥

भावार्थभाषाः -

शरीर में विद्यमान जीवात्मा, प्राण, मन आदि देव परमात्मा के पास से बल प्राप्त कर मनुष्यों को धर्म-मार्ग से ले जाते हैं। उसी प्रकार राष्ट्र में विद्यासभा, धर्मसभा और न्यायसभा के अध्यक्ष तथा सेना का अध्यक्षप्रजाजनों को धर्ममार्ग में ले चलें । गुरुकुलवासी सुयोग्य अध्यापकों से युक्त, श्रेष्ठ गुण-कर्म-स्वभाववाला आचार्य भी शिष्यों को धर्म तथा विद्या के मार्ग में ले चले ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

इन्द्राधिष्ठिता वरुणमित्रादयः—अस्मान् सरलमार्गेण नयेयुरित्याह।

पदार्थान्वयभाषाः -

प्रथमः—अध्यात्मपरः। हे इन्द्रपरमात्मन् ! (देवैः) चक्षुरादिभिरिन्द्रियैः२। दीव्यन्ति व्यवहरन्ति स्वस्वविषयेष्विति देवाः इन्द्रियाणि तैः। (सजोषाः) सप्रीतिः। जुषी प्रीतिसेवनयोः धातोः औणादिकोऽसुन् प्रत्ययः। जोषसा सह वर्तते इति सजोषाः। समासे ‘वोपसर्जनस्य’ अ० ६।३।८२ इति सहस्य सः। (विद्वान्) ज्ञानवान् (वरुणः) पापेभ्यो निवारणकर्त्ता जीवात्मा, (मित्रः) प्राणः, (अर्यमा) मनः (नः) अस्मान् (ऋजुनीती) ऋजुनीत्या सरलेन धर्ममार्गेण। ‘सुपां सुलुक्पूर्वसवर्णदीर्घ०’ अ० ७।१।३९ इति तृतीयैकवचने पूर्वसवर्णदीर्घः। (नयति) नयतु।३ णीञ् प्रापणे धातोर्विध्यर्थे लेटि ‘लेटोऽडाटौ’ अ० ३।४।९४ इत्यडागमः ॥ अथ द्वितीयः—राष्ट्रपरः। हे इन्द्र राजन् ! (देवैः) स्वस्वाधिकारेषु व्यवहरद्भिः राजपुरुषैः (सजोषाः) सप्रीतिः, आनुकूल्यं भजमानः इत्यर्थः (विद्वान्) विपश्चिद् विद्यासभाध्यक्षः, (वरुणः) शत्रुनिवारकः शस्त्रास्त्रपाणिः सेनाध्यक्षः, (मित्रः) कदाचाररूपाद् मरणात् त्राणकर्त्ता धर्मसभाध्यक्षः, मित्रः प्रमीतेस्त्रायते। निरु० १०।२१।४ (अर्यमा) न्यायसभाध्यक्षः (नः) अस्मान् प्रजाजनान् (ऋजुनीती) ऋजुना धर्ममार्गेण (नयति) नयतु ॥ अथ तृतीयः—विद्वत्परः। (देवैः) विद्यया दीप्तैः विद्याव्रतदानशीलैः सर्वैः अध्यापकैः (सजोषाः) सामञ्जस्यं भजमानः (वरुणः) श्रेष्ठगुणकर्मस्वभावः, छात्रैराचार्यत्वेन वृतः छात्राणां शिष्यत्वेन वर्ता वा, (मित्रः) पापरूपात् मरणात् त्राणकर्ता, (अर्यमा) न्यायकारी (विद्वान्) आप्तविद्यः आचार्यः (नः) अस्मान् शिष्यान् (ऋजुनीती) ऋजुः सरला शुद्धा चासौ विद्यानीतिः व्रतनीतिश्च तया (नयति) नयतु। अस्मान् सुयोग्यान् विद्याव्रतस्नातकान् करोतु इत्यर्थः ॥५॥५ अत्र श्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

शरीरे विद्यमाना जीवात्मप्राणमनःप्रभृतयो देवाः परमात्मनः सकाशाद् बलं प्राप्य मनुष्यान् धर्ममार्गेण नयन्ति। तथैव राष्ट्रे विद्याधर्मन्यायसभानामध्यक्षाः सेनाध्यक्षश्च प्रजाजनान् धर्ममार्गे नयन्तु। किञ्च गुरुकुलवासिभिः सुयोग्यैरध्यापकैः समन्वितः श्रेष्ठगुणकर्मस्वभाव आचार्योऽपि शिष्यान् धर्ममार्गे नयतु ॥५॥

टिप्पणी: १. ऋ० १।९०।१, ‘नयति’ इत्यत्र ‘नयतु’ इति पाठः। विश्वेदेवाः देवता। २. देवाः स्वस्वविषयप्रकाशकानि श्रोत्रादीनीन्द्रियाणि इति ऋ० ६।९।५ भाष्ये द०। ३. नयतीति पञ्चमलकारान्तम्, नयतु—इति भ०। नयति अभिमतं फलं प्रापयति—इति सा०। ४. पदकारेणापि ‘मि-त्रः’ इति विभजनात् ‘प्रमीतेः त्रायते यः सः’ इत्येवार्थः सूचितः। ५. दयानन्दर्षिणा ऋग्भाष्येऽस्य मन्त्रस्य वाचकलुप्तोपमालङ्कारमाश्रित्य परमेश्वरार्थेन सह विद्वत्परोऽर्थः प्रकाशितः।