इ꣡न्द्र꣢स्य꣣ वृ꣢ष्णो꣣ व꣡रु꣢णस्य꣣ रा꣡ज्ञ꣢ आदि꣣त्या꣡नां꣢ म꣣रु꣢ता꣣ꣳ श꣡र्ध꣢ उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसां भुवनच्य꣣वा꣢नां꣣ घो꣡षो꣢ दे꣣वा꣢नां꣣ ज꣡य꣢ता꣣मु꣡द꣢स्थात् ॥१८५७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७॥
इ꣡न्द्र꣢꣯स्य । वृ꣡ष्णः꣢꣯ । व꣡रु꣢꣯णस्य । रा꣡ज्ञः꣢꣯ । आ꣣दित्या꣡ना꣢म् । आ꣣ । दित्या꣡ना꣢म् । म꣣रु꣡ता꣢म् । श꣡र्धः꣢꣯ । उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसाम् । म꣣हा꣢ । म꣣नसाम् । भुवनच्यवा꣡ना꣢म् । भु꣣वन । च्यवा꣡ना꣢म् । घो꣡षः꣢꣯ । दे꣣वा꣡ना꣢म् । ज꣡य꣢꣯ताम् । उत् । अ꣣स्थात् ॥१८५७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अब वीरों के विजय-घोष का वर्णन करते हैं।
(वृष्णः) महाबली (इन्द्रस्य) विघ्नविदारक जीवात्मा का, (राज्ञः) सङ्कल्प बल से राजित (वरुणस्य) श्रेष्ठ मन का और (आदित्यानाम्) दोषापहारी (मरुताम्) प्राणों का (उग्रम्) उग्र (शर्धः) बल (उदस्थात्) ऊपर उठे। (महामनसाम्) बड़े हौसलेवाले, (भुवनच्यवानाम्) ब्रह्माण्ड को डिगा देनेवाले, (जयताम्) विजय-लाभ करनेवाले (देवानाम्) दिव्य भावों का और धर्मात्मा रण-बाँके वीरों का (घोषः) विजय-घोष (उदस्थात्) ऊपर उठे ॥३॥ यहाँ ‘भुवनच्यवानाम्’ में असम्बन्ध में सम्बन्धरूप अतिशयोक्ति अलङ्कार है। वीर रस है ॥३॥
उत्साही आत्मा, मन, प्राण आदि शरीरस्थ रण-बाँके वीरों की और राष्ट्र के सेनापति आदि वीरोद्भटों की देवासुरसङ्ग्राम में विजय निश्चित होती है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ वीराणां विजयघोषो वर्ण्यते।
(वृष्णः) महाबलस्य (इन्द्रस्य) विघ्नविदारस्य जीवात्मनः, (राज्ञः) संकल्पबलेन राजितस्य (वरुणस्य) श्रेष्ठस्य मनसः, (आदित्यानाम्) दोषापहारकाणाम् (मरुताम्) प्राणानां च [आददते शरीरस्थान् दोषान् ये ते आदित्याः।] (उग्रम्) तीक्ष्णम् (शर्धः) बलम् (उदस्थात्) उत्तिष्ठतु। (महामनसाम्) महोत्साहानाम्, (भुवनच्यवानाम्) ब्रह्माण्डच्यावयितॄणाम्, (जयतां) विजयं लभमानानाम् (देवानाम्) दिव्यभावानां धार्मिकाणां रणोद्भटानां वा (घोषः) विजयघोषः (उदस्थात्) उत्तिष्ठतु। [अत्र लोडर्थे लुङ्] ॥३॥२ अत्र ‘भुवनच्यवानाम्’ इत्यत्रासम्बन्धे सम्बन्धरूपोऽतिशयोक्ति- रलङ्कारः वीरो रसः ॥३॥
उत्साहवतामात्ममनःप्राणादीनां शरीरस्थानां वीरप्रकाण्डानां, राष्ट्रस्य सेनापत्यादिवीरोद्भटानां च देवासुरसंग्रामे विजयः सुनिश्चितः खलु ॥३॥