बृ꣡ह꣢स्पते꣣ प꣡रि꣢ दीया꣣ र꣡थे꣢न रक्षो꣣हा꣡मित्रा꣢꣯ꣳ अप꣣बा꣡ध꣢मानः । प्र꣣भ꣡ञ्जन्सेनाः꣢꣯ प्रमृ꣣णो꣢ यु꣣धा꣡ जय꣢꣯न्न꣣स्मा꣡क꣢मेध्यवि꣣ता꣡ रथा꣢꣯नाम् ॥१८५२॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)बृहस्पते परि दीया रथेन रक्षोहामित्राꣳ अपबाधमानः । प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥१८५२॥
बृ꣡हः꣢꣯ । प꣣ते । प꣡रि꣢꣯ । दी꣣य । र꣡थेन । र꣣क्षोहा꣢ । र꣣क्षः । हा꣢ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । अ꣣पबा꣡ध꣢मानः । अ꣣प । बा꣡ध꣢꣯मानः । प्र꣣भञ्ज꣢न् । प्र꣣ । भञ्ज꣢न् । से꣡नाः꣢꣯ । प्र꣡मृणः꣢꣯ । प्र꣣ । मृणः꣢ । यु꣣धा꣢ । ज꣡य꣢꣯न् । अ꣣स्मा꣡क꣢म् । ए꣣धि । अवि꣢ता । र꣡था꣢꣯नाम् ॥१८५२॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में जीवात्मा को देवासुर सङ्ग्राम में विजय के लिए उद्बोधन दिया गया है।
हे (बृहः पते) दिव्यगुणों की विशाल सेना के अधिपति जीवात्मन् ! (रक्षोहा) पाप वा दुर्जन रूप राक्षसों का वधकर्ता तू (अमित्रान्) विघ्नों और शत्रुओं को (अपबाधमानः) तिरस्कृत करता हुआ (रथेन) शरीर-रथ से (परि दीय) चारों ओर पहुँच। (सेनाः) काम-क्रोध आदि की और दुर्जनों की सेनाओं को (प्रभञ्जन्) तोड़ता-फोड़ता हुआ, (प्रमृणः) हत्यारे दुर्विचारों वा हिंसक मनुष्यों को (युधा) आन्तरिक और बाह्य देवासुरसङ्ग्राम से (जयन्) जीतता हुआ (अस्माकम्) हम सदाचारी, धार्मिक, न्यायकारी जनों के (रथानाम्) रथों का (अविता) रक्षक एधि हो ॥१॥
जीवात्मा को चाहिए कि सेनापति के समान उत्साह बटोर कर आन्तरिक तथा बाह्य शत्रुओं को खदेड़ता हुआ सद्भावों और सज्जनों की रक्षा करे ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ जीवात्मानं देवासुरसंग्रामे विजयाय प्रोद्बोधयति।
हे (बृहः पते) बृहत्याः दिव्यगुणसेनायाः पते जीवात्मन् ! (रक्षोहा) रक्शांसि पापानि दुष्टान् वा हन्ति यः सः, त्वम् (अमित्रान्) विघ्नान् शत्रून् वा (अपबाधमानः) तिरस्कुर्वन्, (रथेन) देहरूपेण शकटेन (परि दीय) सर्वतो गच्छ। (सेनाः) कामक्रोधादीनां दुर्जनानां वा पृतनाः (प्रभञ्जन्) प्ररुजन्, (प्रमृणः) ये मृणन्ति हिंसन्ति तान् दुर्विचारान् हिंसकजनान् वा (युधा) आभ्यन्तरेण बाह्येन च देवासुरसंग्रामेण (जयन्) पराभवन् (अस्माकम्) सदाचारिणां धार्मिकाणां न्यायकारिणां जनानाम् (रथानाम्) यानानाम् (अविता) रक्षिता (एधि) भव। [अमित्रान्, न विद्यन्ते मित्राणि येषां तान्। बहुव्रीहौ ‘नञो जरमरमित्रमृताः’ अ० ६।२।११६ इति मित्रशब्दस्याद्युदात्तत्वम्। परिदीय, दीयति गतिकर्मा, निघं० २।१४।] ॥१॥२
जीवात्मा सेनापतिरिवोत्साहं सञ्चित्यान्तरान् बाह्यांश्च रिपून् विद्रावयन् सद्भावान् सज्जनांश्च प्ररक्षेत् ॥१॥