वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢꣯न्द्रेहि꣣ म꣡त्स्यन्ध꣢꣯सो꣡ वि꣡श्वे꣢भिः सोम꣣प꣡र्व꣢भिः । म꣣हा꣡ꣳ अ꣢भि꣣ष्टि꣡रोज꣢꣯सा ॥१८०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ अभिष्टिरोजसा ॥१८०॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । आ । इ꣣हि । म꣡त्सि꣢꣯ । अ꣡न्ध꣢꣯सः । वि꣡श्वे꣢꣯भिः । सो꣣म꣡पर्व꣢भिः । सो꣣म । प꣡र्व꣢꣯भिः । म꣣हा꣢न् । अ꣣भिष्टिः꣢ । ओ꣡ज꣢꣯सा ॥१८०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 180 | (कौथोम) 2 » 2 » 4 » 6 | (रानायाणीय) 2 » 7 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमेश्वर और विद्वान् का आह्वान किया गया है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) दुर्गुणों को विदीर्ण तथा सद्गुणों को प्रदान करनेवाले परमेश्वर ! आप (आ इहि) हमारे जीवन-यज्ञ में आइए, (अन्धसः) हमारे पुरुषार्थरूप अन्न से तथा (विश्वेभिः) सब (सोमपर्वभिः) भक्ति-समारोहों से (मत्सि) प्रसन्न होइए। आप (महान्) महान् और (ओजसा) बल से (अभिष्टिः) हमारे कामादि रिपुओं के प्रति आक्रमण करनेवाले हो ॥ द्वितीय—विद्वान् के पक्ष में। हे (इन्द्र) विद्यारूप ऐश्वर्य से युक्त विद्वन् ! आप (आ इहि) आइए, (अन्धसः) सात्त्विक अन्न से, तथा (विश्वेभिः) सब (सोमपर्वभिः) बल बढ़ानेवाली सोम आदि ओषधियों के खण्डों से (मत्सि) तृप्त होइए। आप (महान्) गुणों में महान्, तथा (ओजसा) विद्याबल से (अभिष्टिः) अभीष्ट प्राप्त करानेवाले और समाज के अविद्या, दुराचार आदि दुर्गुणों पर आक्रमण करनेवाले, बनिए ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥

भावार्थभाषाः -

जैसे पुरुषार्थ और भक्ति से प्रसन्न किया गया परमेश्वर मनुष्यों के काम, कोध्र, हिंसा, उपद्रव आदि सब शत्रुओं को क्षण भर में ही विनष्ट कर देता है, वैसे ही विद्वान् मनुष्य को चाहिए कि वह सात्त्विक एवं पुष्टिप्रद अन्न, ओषधि आदि से परिपुष्ट होकर राष्ट्र से अविद्या आदि दुर्गुणों का शीघ्र ही विनाश करे ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमेश्वरो विद्वांश्चाहूयते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे (इन्द्र) दुर्गुणविदारक सद्गुणप्रदायक परमेश्वर ! त्वम् (आ इहि) अस्माकं जीवनयज्ञम् आगच्छ, (अन्धसः) अस्मत्पुरुषार्थरूपाद् अन्नात्। अन्धः इति अन्ननाम। निघं० २।७। (विश्वेभिः) समस्तैः (सोमपर्वभिः) भक्तिसमारोहैश्च (मत्सि) हृष्टो भव। मदी हर्षे दिवादिः, लोटि बहुलं छन्दसि।’ अ० २।४।७३ इति श्यनो लुक्। मद्धि इति प्राप्ते, सर्वे विधयश्छन्दसि विकल्प्यन्ते इति सेर्हिरादेशो न भवति। त्वम् (महान्) महिमवान्, किञ्च (ओजसा) बलेन (अभिष्टिः२) अस्माकं कामादिरिपून् प्रति आक्रान्ता, वर्तसे इति शेषः। अभि पूर्वात् इष गतौ धातोः मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। अ० ३।३।९६ इति भावे विहितः क्तिन् अत्र बाहुलकात् कर्तरि ज्ञेयः। अभीष्टिः इति प्राप्ते एमन्नादिषु छन्दसि पररूपं वाच्यम्।’ अ० ६।१।९४ वा० इति पररूपम् ॥ अथ द्वितीयः—विद्वत्परः। हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! त्वम् (आ इहि) आगच्छ, (अन्धसः) सात्त्विकाद् अन्नात्, (विश्वेभिः) समस्तैः (सोमपर्वभिः) बलवृद्धिकरीणां सोमाद्योषधीनां खण्डैश्च (मत्सि) तृप्यस्व। त्वम् (महान्) महागुणोपेतः, किञ्च (ओजसा) विद्याबलेन (अभिष्टिः) अभीष्टानां प्रापयिता यद्वा समाजस्य अविद्यादुराचारादिदुर्गुणान् प्रति आक्रान्ता भव इति शेषः ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥

भावार्थभाषाः -

यथा पुरुषार्थेन भक्त्या च प्रसादितः परमेश्वरो मनुष्याणां कामक्रोधहिंसोपद्रवादीन् सर्वान् रिपून् क्षणेनैव विद्रावयति, तथा विद्वान् जनः सात्त्विकपुष्टिप्रदान्नौषध्यादिभिः परिपुष्टः सन् राष्ट्रादविद्यादीन् दुर्गुणान् सद्य एव विद्रावयेत् ॥६॥

टिप्पणी: १. ऋ० १।९।१, य० ३३।२५, अथ० २०।७१।७। २. अभिष्टिः आभिमुख्येन यष्टव्यः अभ्येषणशीलो वा शत्रूणाम्—इति वि०। अभिष्टोता अभिगन्ता शत्रूणाम्। अभिपूर्वाद् इषेः गतिकर्मणोऽभिष्टिः—इति भ०। अभीष्टिः शत्रूणामभिभविता—इति सा०। अभितः सर्वतो ज्ञाता ज्ञापयिता मूर्तद्रव्यप्रकाशको वा इति ऋ० १।९।१। भाष्ये, अभियष्टव्यः सर्वतः पूज्यः इति च य० ३३।२५ भाष्ये द०। ३. मन्त्रोऽयं दयानन्दर्षिणा ऋग्भाष्ये परमेश्वरपक्षे सूर्यपक्षे च, यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातः।