वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢स्ति꣣ सो꣡मो꣢ अ꣣य꣢ꣳ सु꣣तः꣡ पिब꣢꣯न्त्यस्य म꣣रु꣡तः꣢ । उ꣣त꣢ स्व꣣रा꣡जो꣢ अ꣣श्वि꣡ना꣢ ॥१७८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अस्ति सोमो अयꣳ सुतः पिबन्त्यस्य मरुतः । उत स्वराजो अश्विना ॥१७८५॥

मन्त्र उच्चारण
पद पाठ

अ꣡स्ति꣢꣯ । सो꣡मः꣢꣯ । अ꣣य꣢म् । सु꣣तः꣢ । पि꣡ब꣢꣯न्ति । अ꣣स्य । मरु꣡तः꣢꣯ । उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣣श्वि꣡ना꣢ ॥१७८५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1785 | (कौथोम) 9 » 1 » 8 » 1 | (रानायाणीय) 20 » 2 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ९७४ क्रमाङ्क पर भक्तिरस, ज्ञानरस आदि के विषय में की जा चुकी है। यहाँ ब्रह्मानन्द-रस का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(अयम्) यह (सोमः) आनन्द-रस (सुतः अस्ति) परमेश्वर के पास से परिस्रुत किया गया है। (स्वराजः अस्य) निज दीप्तिवाले इस रस को (मरुतः) प्राण (उत) और (अश्विनौ) आत्मा तथा मन (पिबन्ति) पीते हैं ॥१॥

भावार्थभाषाः -

उपासकों द्वारा परमात्मा के ध्यान से जो ब्रह्मानन्द-रस प्राप्त किया जाता है, उससे आत्मा, मन, प्राण आदि सभी तरङ्गित हो जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १७४ क्रमाङ्के भक्तिज्ञानकर्मवीरतासेवारसविषये व्याख्याता। अत्र ब्रह्मानन्दरसविषय उच्यते।

पदार्थान्वयभाषाः -

(अयम्) एषः (सोमः) आनन्दरसः (सुतः अस्ति) अभिषुतो वर्तते। (स्वराजः अस्य) स्वकीयदीप्तिमतः अस्य (मरुतः) प्राणाः (उत) अपि च (अश्विनौ) आत्मा मनश्च (पिबन्ति) आस्वादनं कुर्वन्ति। [स्वराजः अस्य स्वराजम् इमम्। द्वितीयार्थे षष्ठी] ॥१॥

भावार्थभाषाः -

उपासकैः परमात्मध्यानेन यो ब्रह्मानन्दरसः प्राप्यते तेनात्ममनःप्राणादीनि सर्वाण्यपि तरङ्गितानि जायन्ते ॥१॥