आ꣡ भा꣢त्य꣣ग्नि꣢रुष꣣सा꣢म꣣नी꣡क꣢मु꣣द्वि꣡प्रा꣢꣯णां देव꣣या꣡ वाचो꣢꣯ अस्थुः । अ꣣र्वा꣡ञ्चा꣢ नू꣣न꣡ꣳ र꣢थ्ये꣣ह꣡ या꣢तं पीपि꣣वा꣡ꣳस꣢मश्विना घ꣣र्म꣡मच्छ꣢꣯ ॥१७५२॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातं पीपिवाꣳसमश्विना घर्ममच्छ ॥१७५२॥
आ꣡ । भा꣢ति । अग्निः꣣ । उ꣣ष꣡सा꣢म् । अ꣡नी꣢꣯कम् । उत् । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । देवयाः꣢ । दे꣣व । याः꣢ । वा꣡चः꣢꣯ । अ꣣स्थुः । अर्वा꣡ञ्चा꣢ । नू꣣न꣢म् । र꣣थ्या । इह꣢ । या꣣तम् । पीपिवा꣡ꣳस꣢म् । अ꣣श्विना । घर्म꣢म् । अ꣡च्छ꣢꣯ ॥१७५२॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में प्राणायाम का वर्णन है।
(अग्निः) यज्ञाग्नि (आ भाति) आभासित हो रही है, (उषसाम्) उषाओं की (अनीकम्) किरण-सेना भी (आ भाति) आभासित हो रही है। (विप्राणाम्) मेधावी उपासकों की (देवयाः) परमात्माराधना की इच्छुक (वाचः) वाणियाँ (उद् अस्थुः) उठ रही हैं। हे (रथ्या) शरीर-रथ को चलानेवाले (अश्विना) प्राणापानो ! तुम दोनों (अर्वाञ्चा) हमारे अभिमुख होते हुए (नूनम्) निश्चय ही (इह) यहाँ (पीपिवांसम्) समृद्ध (घर्मम्) प्रातःकालीन ब्रह्मयज्ञ के (अच्छ) प्रति (आ यातम्) आओ ॥१॥
उषाकाल में स्वच्छ प्राभातिक वायु में ब्रह्मयज्ञ में किया गया प्राणायाम अपूर्व, तेज, जागृति, स्फूर्ति, आरोग्य और बल प्रदान करता है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ प्राणायामविषयं वर्णयति।
(अग्निः) यज्ञाग्निः (आ भाति) आभासते, (उषसाम्) प्रभातकान्तीनाम् (अनीकम्) किरणसैन्यमपि (आ भाति) आ भासते। (विप्राणाम्) मेधाविनाम् उपासकानाम् (देवयाः) परमात्माराधनकामाः (वाचः) गिरः (उद् अस्थुः) उत्तिष्ठन्ति। हे (रथ्या) रथ्यौ देहरथवोढारौ (अश्विना) अश्विनौ प्राणापानौ। युवाम् (अर्वाञ्चा) अर्वाञ्चौ अस्मदभिमुखौ सन्तौ (नूनम्) निश्चयेन (इह) अत्र (पीपिवांसम्) आप्यायितम्। [ओप्यायी वृद्धौ, लिटः क्वसुः, प्यायः पी आदेशः।] (धर्मम्) प्रातःकालिकं ब्रह्मयज्ञम् (अच्छ) प्रति (आ यातम्) आगच्छतम् ॥१॥२
उषःकाले स्वच्छे प्रभातवायौ ब्रह्मयज्ञे कृतः प्राणायामोऽपूर्वं तेजो जागर्तिं स्फूर्तिमारोग्यं बलं च प्रयच्छति ॥१॥