वांछित मन्त्र चुनें
आर्चिक को चुनें

भ꣣द्रं꣡भ꣢द्रं न꣣ आ꣢ भ꣣रे꣢ष꣣मू꣡र्ज꣢ꣳ शतक्रतो । य꣡दि꣢न्द्र मृ꣣ड꣡या꣢सि नः ॥१७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रंभद्रं न आ भरेषमूर्जꣳ शतक्रतो । यदिन्द्र मृडयासि नः ॥१७३॥

मन्त्र उच्चारण
पद पाठ

भ꣣द्र꣡म्भ꣢द्रं । भ꣣द्रम् । भ꣣द्रम् । नः । आ꣢ । भ꣣र । इ꣡ष꣢꣯म् । ऊ꣡र्ज꣢꣯म् । श꣣तक्रतो । शत । क्रतो । य꣢त् । इ꣣न्द्र । मृड꣡या꣢सि । नः꣣ ॥१७३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 173 | (कौथोम) 2 » 2 » 3 » 9 | (रानायाणीय) 2 » 6 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र से भद्र की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (शतक्रतो) अनन्त शुभ कर्मों को करनेवाले प्रभु ! तुम (भद्रंभद्रम्) भद्र-भद्र (इषम्) अन्न, धन, विज्ञान आदि और (ऊर्जम्) बल, प्राण, रस आदि (नः) हमारे लिए (आ भर) लाओ। (यत्) क्योंकि, हे (इन्द्र) दयानिधि परमात्मन् ! आप (नः) हमें (मृडयासि) सदा सुखी ही करते हो ॥९॥

भावार्थभाषाः -

मनुष्यों को भद्र-भद्र ही धन आदि का उपार्जन करके अपनी और दूसरों की उन्नति करनी चाहिए ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रो भद्रं प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (शतक्रतो) असंख्यशुभकर्मणां कर्तः प्रभो ! त्वम् (भद्रंभद्रम्२) अतिशयेन कल्याणकरम् (इषम्३) अन्नधनविज्ञानादिकम्। इषम् इति अन्ननाम। निघं० २।७। इषु इच्छायाम्, इषु गतौ धातोः क्विप्। (ऊर्जम्) बलं, प्राणशक्तिम्, रसं च। ऊर्ज बलप्राणनयोः। ऊर्ग् रसः। श० १।५।४।२। (नः) अस्मभ्यम् (आ भर) आहर। अत्र हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भत्वम्। (यत्) यस्मात्, हे (इन्द्र) दयानिधे परमात्मन् ! त्वम् (नः) अस्मान् (मृडयासि) सुखयसि। मृड सुखने तुदादौ पठितो वेदे चुरादिरपि प्रयुज्यते। लडर्थे लेटि आडागमः। मृडयतिरुपदयाकर्मा पूजाकर्मा वा इति निरुक्तम् १०।१५ ॥९॥

भावार्थभाषाः -

मनुष्यैर्भद्रं भद्रमेव धनादिकमुपार्ज्य सततं स्वेषां परेषां चोन्नतिर्विधेया ॥९॥

टिप्पणी: १. ऋ० ८।९३।२८, ऋषिः सुकक्षः। २. भद्रंभद्रम् अतिशयेन शोभनमित्यर्थः—इति वि०। भद्रंभद्रं सर्वं कल्याणं नः अस्मभ्यम् आभर इषं पुष्टिं ऊर्जं रसं च आभर—इति भ०। ३. (इषम्) अन्नं विज्ञानं वा इति ऋ० ७।४८।४ भाष्ये, विज्ञानं धनं वा इति च ऋ० ७।८।७ भाष्ये—द०।