वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

ऋ꣣ता꣡वा꣢नं वैश्वान꣣र꣢मृ꣣त꣢स्य꣣ ज्यो꣡ति꣢ष꣣स्प꣡ति꣢म् । अ꣡ज꣢स्रं घ꣣र्म꣡मी꣢महे ॥१७०८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे ॥१७०८॥

मन्त्र उच्चारण
पद पाठ

ऋ꣣ता꣡वा꣢नम् । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣त꣡स्य꣢ । ज्यो꣡ति꣢꣯षः । प꣡ति꣢꣯म् । अ꣡ज꣢꣯स्रम् । अ । ज꣣स्रम् । घर्म꣢म् । ई꣣महे ॥१७०८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1708 | (कौथोम) 8 » 2 » 19 » 1 | (रानायाणीय) 18 » 4 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में जगदीश्वर से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

(ऋतावानम्) सत्यमय, (वैश्वानरम्) सब मनुष्यों के हितकर्ता, (ऋतस्य) जल वा धन के और (ज्योतिषः) ज्योति के (पतिम्) स्वामी वा पालक जगदीश्वर से हम (अजस्रम्) अक्षय (घर्मम्) तेज वा प्रताप को (ईमहे) माँगते हैं ॥१॥

भावार्थभाषाः -

जो स्वयं प्रतापी, तेजस्वी और सत्यमय होता है, वही दूसरों को वैसा बना सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ जगदीश्वरं प्रार्थयते।

पदार्थान्वयभाषाः -

(ऋतावानम्) सत्यवन्तम्। [अत्र ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वार्तिकेन वनिप् प्रत्ययः। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति ऋतस्य दीर्घान्तादेशः।] (वैश्वानरम्) विश्वेषां नृणां हितम्, (ऋतस्य) जलस्य धनस्य वा। [ऋतमित्युदकनाम धननाम च। निघं० १।१२, २।१०।] (ज्योतिषः) प्रकाशस्य च (पतिम्) स्वामिनं पातारं वा जगदीश्वरं वयम् (अजस्रम्) अक्षयम् (घर्मम्) तेजः प्रतापं वा (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥१॥

भावार्थभाषाः -

यः स्वयं प्रतापी तेजस्वी सत्यवांश्च भवति स एवान्यांस्तथाविधान् कर्तुं शक्नोति ॥१॥