वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣣हा꣡ꣳ इन्द्रः꣢꣯ पु꣣र꣡श्च꣢ नो महि꣣त्व꣡म꣢स्तु व꣣ज्रि꣡णे꣢ । द्यौ꣡र्न प्र꣢꣯थि꣣ना꣡ शवः꣢꣯ ॥१६६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

महाꣳ इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे । द्यौर्न प्रथिना शवः ॥१६६॥

मन्त्र उच्चारण
पद पाठ

म꣣हा꣢न् । इ꣡न्द्रः꣢꣯ । पु꣣रः꣢ । च꣣ । नः । महित्व꣢म् । अ꣣स्तु । वज्रि꣡णे꣢ । द्यौः । न । प्र꣣थिना꣢ । श꣡वः꣢꣯ ॥१६६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 166 | (कौथोम) 2 » 2 » 3 » 2 | (रानायाणीय) 2 » 6 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और राजा के महत्त्व का वर्णन है।

पदार्थान्वयभाषाः -

(इन्द्रः) परमैश्वर्यवान्, दुःखविदारक सुखशान्तिप्रदाता परमेश्वर वा राजा (महान्) अतिशय महान् है, (च) और वह (नः) हमारे (पुरः) समक्ष ही है। (वज्रिणे) उस न्यायदण्डधारी का (महित्वम्) महिमागान, जयजयकार (अस्तु) हो। (शवः) उसका बल (प्रथिना) विस्तार में (द्यौः न) विस्तीर्ण सूर्यप्रकाश के समान है ॥२॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

न्यायकारी, परमबली परमेश्वर और राजा का यशोगान करके स्वयं भी सबको न्यायकारी और बलवान् बनना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमात्मनो नृपतेश्च महत्त्वं वर्ण्यते।

पदार्थान्वयभाषाः -

(इन्द्रः) परमैश्वर्यवान्, दुःखदारकः, सुखशान्तिप्रदायकः परमेश्वरो नृपतिर्वा (महान्) अतिशयमहिमोपेतो वर्तते, (नः) अस्माकम् (पुरः च) समक्षमेव च विद्यते। (वज्रिणे) न्यायदण्डधराय तस्मै (महित्वम्) महिमगानम्, जयजयकारः। मह्यते पूज्यते सर्वैर्जनैरिति महिः। मह पूजायाम् औणादिकः इन् प्रत्ययः। तस्य भावः महित्वम्। (अस्तु) भवतु। (शवः) तस्य बलम्। शव इति बलनाम। निघं० २।९। (प्रथिना) प्रथिम्ना विस्तारेण। पृथुशब्दात् पृथ्वादिभ्य इमनिज् वा। अ० ५।१।१२२ इति इमनिच् प्रत्ययः। मकारलोपश्छान्दसः। यद्वा प्रथि शब्दस्य तृतीयैकवचने रूपम्। (द्यौः न) विशालः सूर्यप्रकाशः इव अस्ति ॥२॥२ अत्र अर्थश्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

न्यायकारिणः परमबलिनः परमेश्वरस्य नृपतेश्च यशोगानेन स्वयमपि न्यायकारिभिर्बलवद्भिश्च सर्वैर्भवितव्यम् ॥२॥

टिप्पणी: १. ऋ० १।८।५, अथ० २०।७१।१। उभयत्र पुरश्च नो इत्यत्र परश्च नु इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरपक्षे व्याख्यातः।