वांछित मन्त्र चुनें
आर्चिक को चुनें

व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥१५७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥१५७॥

मन्त्र उच्चारण
पद पाठ

व꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अ꣣र्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥१५७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 157 | (कौथोम) 2 » 2 » 2 » 3 | (रानायाणीय) 2 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि हम परमात्मा की अर्चना करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन् ! (त्वायन्तः) आपके पाने की कामना करते हुए (सखायः) आपके सखा (वयम् उ) हम उपासक लोग (तदिदर्थाः) आपके दर्शन को ही प्रयोजन मानते हुए (त्वा) आपकी स्तुति करते हैं। न केवल हम, प्रत्युत (कण्वाः) सभी मेधावी जन (उक्थेभिः) स्तोत्रों से आपकी (जरन्ते) स्तुति करते हैं ॥३॥

भावार्थभाषाः -

हे परमानन्दप्रदायक परमेश्वर ! आपके दर्शनों की लालसावाले हम सभी बड़ी उत्सुकता से आपकी चाहना करते हैं और बार-बार भक्ति से गद्गद होकर आपकी स्तुति करते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वयं परमात्मानमर्चयाम इत्याह।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन् ! (त्वायन्तः) त्वां कामयमानाः। युष्मच्छब्दात् आत्मन इच्छार्थे क्यचि शतरि रूपम्। (सखायः) तव सुहृदः (वयम् उ) वयम् उपासकाः खलु। उ इति वाक्यालङ्कारे पदपूरणे वा। (तदिदर्थाः२) तत् इत् तदेव त्वद्दर्शनमेव अर्थः प्रयोजनं येषां तथाविधाः सन्तः (त्वा) त्वाम् स्तुमः इति शेषः। न केवलं वयम्, प्रत्युत (कण्वाः) सर्वेऽपि मेधाविनः। कण्व इति मेधाविनाम। निघं० ३।१५। (उक्थेभिः) उक्थैः स्तोत्रैः त्वाम् (जरन्ते) स्तुवन्ति। जरते अर्चतिकर्मा। निघं० ३।१४ ॥३॥

भावार्थभाषाः -

हे परमानन्दप्रदायक परमेश्वर ! त्वद्दर्शनलालसाः सर्वे वयमौत्सुक्येन त्वां कामयामहे, पुनः पुनश्च सभक्तिगद्गदं त्वां स्तुवामहे ॥३॥

टिप्पणी: १. ऋ० ८।२।१६, साम० ७१९, अथ० २०।१८।१। २. तदिदर्थाः। इदिति पादपूरणः। यस्तवार्थो यागादिः स अर्थो येषां ते तदर्थाः, यागपरा इत्यर्थः—इति वि०। स एवार्थः प्रयोजनं येषां ते तदिदर्थाः स्तुत्येकपरार्थाः—इति भ०। यत् त्वद्विषयं स्तोत्रं तदित् तदेवार्थः प्रयोजनं येषां तादृशाः सन्तः—इति सा०।