कृ꣣ष्णां꣡ यदेनी꣢꣯म꣣भि꣡ वर्प꣢꣯सा꣣भू꣢ज्ज꣣न꣢य꣣न्यो꣡षां꣢ बृह꣣तः꣢ पि꣣तु꣢र्जाम् । ऊ꣣र्ध्वं꣢ भा꣣नु꣡ꣳ सूर्य꣢꣯स्य स्तभा꣣य꣢न्दि꣣वो꣡ वसु꣢꣯भिरर꣣ति꣡र्वि भा꣢꣯ति ॥१५४७
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुꣳ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥१५४७
कृ꣣ष्णा꣢म् । यत् । ए꣡नी꣢꣯म् । अ꣣भि꣢ । व꣡र्प꣢꣯सा । भूत् । ज꣣न꣡य꣢न् । यो꣡षा꣢꣯म् । बृ꣣हतः꣢ । पि꣣तुः꣢ । जाम् । ऊ꣣र्ध्व꣢म् । भा꣣नु꣢म् । सू꣡र्य꣢꣯स्य । स्त꣣भाय꣡न् । दि꣣वः꣢ । व꣡सु꣢꣯भिः । अ꣣रतिः꣡ । वि । भा꣣ति ॥१५४७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
आगे फिर परमात्मा के कर्तृत्व का वर्णन है।
(यत्) जब (बृहतः पितुः) महान् पालनकर्ता सूर्य की (जाम्) पुत्री (योषाम्) उषा को (जनयन्) उत्पन्न करना चाहता हुआ अग्नि परमेश्वर (एनीम्) व्याप्त (कृष्णाम्) काली रात्रि को (वर्पसा) सूर्य के रूप से (अभिभूत्) तिरस्कृत करता है, तब (सूर्यस्य) सूर्य के (उर्ध्वम्) ऊपर स्थित (भानुम्) प्रकाश-मण्डल को (स्तभायन्) थामे हुए (अरतिः) सबका स्वामी वह परमेश्वर (दिवः) द्युलोक के (वसुभिः) ग्रह, नक्षत्र आदि लोकों से (विभाति) विशेष रूप से शोभित होता है ॥१॥
भूमि पर और आकाश में व्याप्त काली रात्रि को छिन्न-भिन्न करके चमकीली उषा को और उसके अनन्तर तीव्र प्रकाशवाले सूर्य को उत्पन्न करता हुआ जगदीश्वर महिमा से अत्यधिक शोभा पाता है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि परमात्मनः कर्तृत्वमाह।
(यत्) यदा (बृहतः पितुः) महतः पालकस्य सूर्यस्य (जाम्) दुहितरम् (योषाम्) उषसम् (जनयन्) जनिष्यमाणः अग्निः परमेश्वरः (एनीम्) व्याप्ताम् (कृष्णाम्) कृष्णवर्णां रात्रिम् (वर्पसा) सूर्यस्य रूपेण। [वर्पस् इति रूपनाम। निघं० ३।७।] (अभिभूत्) अभिभवति, तदा (सूर्यस्य) आदित्यस्य (ऊर्ध्वम्) उपरिस्थितम् (भानुम्) प्रकाशमण्डलम् (स्तभायन्) स्तम्भयन् (अरतिः) सर्वेषां स्वामी स परमेश्वरः (दिवः) द्युलोकस्य (वसुभिः) ग्रहनक्षत्रादिभिः लोकैः (विभाति) विशेषेण शोभते ॥२॥
भुवि गगने च व्याप्तां कृष्णां निशां विच्छिद्य रोचमानामुषसं तदनन्तरं च प्रखरप्रकाशं सूर्यं जनयन् जगदीश्वरो महिम्नातितरां शोभते ॥२॥