वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣द्या꣢द्या꣣ श्वः꣢श्व꣣ इ꣢न्द्र꣣ त्रा꣡स्व꣢ प꣣रे꣡ च꣢ नः । वि꣡श्वा꣢ च नो जरि꣣तॄ꣡न्त्स꣢त्पते꣣ अ꣢हा꣣ दि꣣वा꣢ न꣡क्तं꣢ च रक्षिषः ॥१४५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥१४५८॥

मन्त्र उच्चारण
पद पाठ

अ꣣द्या꣡द्या꣢ । अ꣣द्य꣢ । अ꣣द्य । श्वः꣡श्वः꣢꣯ । श्वः । श्वः꣣ । इ꣡न्द्र꣢꣯ । त्रा꣡स्व꣢꣯ । प꣣रे꣢ । च꣣ । नः । वि꣡श्वा꣢꣯ । च꣣ । नः । जरितॄ꣢न् । स꣣त्पते । सत् । पते । अ꣡हा꣢꣯ । अ । हा꣣ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । च꣣ । रक्षिषः ॥१४५८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1458 | (कौथोम) 6 » 3 » 7 » 1 | (रानायाणीय) 13 » 3 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर से रक्षा के लिए प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्ननाशक परमात्मन् ! आप (अद्य अद्य) आज-आज, (श्वः-श्वः) कल-कल, (परे च) और अगले दिनों में भी (नः) हमारी (त्रास्व) रक्षा करो। हे (सत्पते) सज्जनों के पालक ! (विश्वा च अहा) सभी दिनों में (जरितॄन् नः) हम स्तोताओं की (दिवा नक्तं च) दिन-रात (रक्षिषः) रक्षा करते हो ॥१॥

भावार्थभाषाः -

मनुष्यों के जीवन में कुसङ्ग आदि के कारण नीचे गिरने के बहुत से अवसर आते हैं। परमेश्वर पर अटूट विश्वास उन अवसरों पर उनकी रक्षा करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरं रक्षार्थं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नविदारक परमात्मन् ! त्वम् (अद्य अद्य) अस्मिन् अस्मिन् अहनि (श्वः श्वः) श्वस्तने श्वस्तने अहनि, (परे च) परस्मिन् अहनि च (नः) अस्मान् (त्रास्व) त्रायस्व। [त्रैङ् पालने भ्वादिः। ‘बहुलं छन्दसि’ अ० २।४।७३ इति शपो लुक्।] हे (सत्पते) सतां पालक ! (विश्वा च अहा) विश्वानि च अहानि (जरितॄन् नः) स्तोतॄन् अस्मान् (दिवा नक्तं च) दिने रात्रौ च (रक्षिषः) रक्ष। [रक्षेर्लेटि सिपि अडागमे सिबागमे च रूपम्] ॥१॥

भावार्थभाषाः -

मनुष्याणां जीवने कुसङ्गादिना पतनस्य बहवोऽवसराः समायान्ति। परमेश्वरे दृढो विश्वासस्तत्र तान् रक्षति ॥१॥