वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:
729 बार पढ़ा गया

न꣡ कि꣢रस्य सहन्त्य पर्ये꣣ता꣡ कय꣢꣯स्य चित् । वा꣡जो꣢ अस्ति श्र꣣वा꣡य्यः꣢ ॥१४१६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न किरस्य सहन्त्य पर्येता कयस्य चित् । वाजो अस्ति श्रवाय्यः ॥१४१६॥

मन्त्र उच्चारण
पद पाठ

न । किः꣢ । अस्य । सहन्त्य । पर्येता꣢ । प꣣रि । एता꣢ । क꣡य꣢꣯स्य । चि꣣त् । वा꣡जः꣢꣯ । अ꣡स्ति । श्रवा꣡य्यः꣢ ॥१४१६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1416 | (कौथोम) 6 » 2 » 14 » 2 | (रानायाणीय) 12 » 5 » 1 » 2


हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर की कृपा का फल वर्णित है।

पदार्थान्वयभाषाः -

हे (सहन्त्य) शत्रुओं को तिरस्कृत करनेवाले अग्रणी परमात्मन् ! (कयस्य चित्) युद्ध विद्या के ज्ञाता (अस्य) इस आपके स्तोता को (पर्येता) घेरनेवाला वा उस पर आक्रमण करनेवाला (न किः) कोई नहीं होता, प्रत्युत (वाजः) युद्ध (श्रवाय्यः) उसका यश फैलानेवाला (अस्ति) होता है ॥२॥

भावार्थभाषाः -

जिस पर जगदीश्वर कृपा करता है, उसे युद्ध में कोई भी हरा नहीं सकता, अपितु वह विजयश्री को प्राप्त करता है ॥२॥

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरानुग्रहस्य फलमाह।

पदार्थान्वयभाषाः -

हे (सहन्त्य) शत्रूणामभिभवितः अग्ने अग्रणीः परमात्मन् ! (कयस्य२ चित्) युद्धविद्याया ज्ञातुः [कि ज्ञाने, जुहोत्यादिः, चिकेति जानाति योद्धुं यः स कयः।] (अस्य) तव स्तोतुः (पर्येता) परिवारकः आक्रमिता वा (न किः) न कश्चिदपि भवति। प्रत्युत (वाजः) सङ्ग्रामः, तस्य (श्रवाय्यः) श्रोतुं योग्यः यशस्करः (अस्ति) जायते ॥२॥३

भावार्थभाषाः -

यं जगदीश्वरोऽनुगृह्णाति तं सङ्ग्रामे कश्चित् पराजेतुं न क्षमते, प्रत्युत स विजयश्रियं लभते ॥२॥