वांछित मन्त्र चुनें
आर्चिक को चुनें

बो꣡ध꣢न्मना꣣ इ꣡द꣢स्तु नो वृत्र꣣हा꣡ भूर्या꣢꣯सुतिः । शृ꣣णो꣡तु꣢ श꣣क्र꣢ आ꣣शि꣡ष꣢म् ॥१४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम् ॥१४०॥

मन्त्र उच्चारण
पद पाठ

बो꣡ध꣢꣯न्मनाः । बो꣡ध꣢꣯त् । म꣣नाः । इ꣢त् । अ꣣स्तु । नः । वृत्रहा꣢ । वृ꣣त्र । हा꣢ । भू꣡र्या꣢꣯सुतिः । भू꣡रि꣢꣯ । आ꣣सुतिः । शृणो꣡तु꣢ । श꣣क्रः꣢ । आ꣣शि꣡ष꣢म् । आ꣣ । शि꣡ष꣢꣯म् ॥१४०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 140 | (कौथोम) 2 » 1 » 5 » 6 | (रानायाणीय) 2 » 3 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा है कि परमेश्वर हमारी प्रार्थना को सुने।

पदार्थान्वयभाषाः -

(वृत्रहा) पापों का विनाशक (भूर्यासुतिः) बहुत रसमय इन्द्र परमेश्वर (नः) हमारे लिए (बोधन्मनाः) मन को प्रबुद्ध करनेवाला (इत्) ही (अस्तु) होवे। वह (शक्रः) शक्तिशाली परमेश्वर (आशिषम्) हमारी महत्त्वाकांक्षा को (शृणोतु) सुने, पूर्ण करे ॥६॥ इस मन्त्र में ‘वृत्रहा’ और ‘शक्रः’ शब्द क्योंकि इन्द्र अर्थ में प्रसिद्धि पा चुके हैं, अतः पुनरुक्तवदाभास अलङ्कार है। यौगिक अर्थ लेने पर पुनरुक्ति का परिहार हो जाता है। ‘शृणोतु’ में श्रु धातु की पूर्ण करने अर्थ में लक्षणा है ॥६॥

भावार्थभाषाः -

जो परमात्मा दोषों का हन्ता, अधर्मों का पराजेता, पापों का विनाशक, आनन्दरस का सागर और सर्वशक्तिमान् है, वह हमारे मन को प्रबुद्ध करके हमारी दीर्घायुष्य, समृद्धि, विजय, मोक्ष आदि की महत्त्वाकांक्षाओं को पूर्ण करे ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

परमेश्वरोऽस्माकं प्रार्थनां शृणुयादित्याह।

पदार्थान्वयभाषाः -

(वृत्रहा) पाप्मनां हन्ता। पाप्मा वै वृत्रः। श० ११।१।५।७। (भूर्यासुतिः२) बहुरसः रसो वै सः। तै० उ० २।७। आसूयन्ते निश्च्योत्यन्ते इति आसुतयः रसाः, षुञ् अभिषवे। इन्द्रः परमेश्वरः (नः) अस्मभ्यम् (बोधन्मनाः३) बोधत् प्रबुध्यत् मनो यस्मात् सः, मनसः प्रबोधदायक इत्यर्थः। (इत्) एव (अस्तु) भवतु। सः (शक्रः) शक्तिमान् परमेश्वरः। शक्लृ शक्तौ, स्फायितञ्चिवञ्चिशकि०। उ० २।१३ इति रक् प्रत्ययः। (आशिषम्) अस्माकं महत्त्वाकाङ्क्षाम् (शृणोतु) आकर्णयतु, पूरयतु ॥६॥ अत्र वृत्रहा, शक्रः इत्यनयोरिन्द्रार्थे प्रसिद्धत्वात् पुनरुक्तवदाभासोऽलङ्कारः, यौगिकार्थग्रहणेन च पुनरुक्तेः परिहारः। शृणोतु इत्यस्य च पूरणे लक्षणा ॥६॥

भावार्थभाषाः -

यः परमात्मा दोषाणां हन्ता, अधर्माणां निरस्ता, पापानां विनाशकः, आनन्दरसस्य सागरः, सर्वशक्तिमाँश्च विद्यते सोऽस्माकं मनः प्रबोध्य दीर्घायुष्य-समृद्धि-विजय-मोक्षादीनां महत्त्वाकांक्षाः पूरयेत्।

टिप्पणी: १. ऋ० ८।९३।१८, ऋषिः सुकक्षः। बोधिन्मना इति पाठः। २. भूरि आसुतिर्यस्य स भूर्यासुतिः बहुरस इत्यर्थः—इति वि०। भूर्यासुतिः बह्वन्नसोमपान इत्यर्थः—इति भ०। बहुषु देवेषु इन्द्रार्थं सोमा आसूयन्ते अभिषूयन्ते इति तादृशः, यद्वा बहूनि सोमादिहवींषि इन्द्रार्थम् आसूयन्ते हूयन्त इति तादृशः—इति सा०। ३. बुध्यति मनो यस्य बोधन्मनाः—इति वि०। बुध्यमानचित्तः स्तोमावधारणपरचित्तः—इति भ०। बुध अवगमने, औणादिकोऽत् प्रत्ययः। यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः—इति सा०।