आ꣡ जागृ꣢꣯वि꣣र्वि꣡प्र꣢ ऋ꣣तं꣢ म꣢ती꣣ना꣡ꣳ सोमः꣢꣯ पुना꣣नो꣡ अ꣢सदच्च꣣मू꣡षु꣢ । स꣡प꣢न्ति꣣ यं꣡ मि꣢थु꣣ना꣢सो꣣ नि꣡का꣢मा अध्व꣣र्य꣡वो꣢ रथि꣣रा꣡सः꣢ सु꣣ह꣡स्ताः꣢ ॥१३५७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)आ जागृविर्विप्र ऋतं मतीनाꣳ सोमः पुनानो असदच्चमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥१३५७॥
आ꣢ । जा꣡गृ꣢꣯विः । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । ऋत꣢म् । म꣣तीना꣢म् । सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣सदत् । चमू꣡षु꣢ । स꣡प꣢꣯न्ति । यम् । मि꣣थुना꣡सः꣢ । नि꣡का꣢꣯माः । नि । का꣣माः । अध्वर्य꣡वः꣢ । र꣣थिरा꣡सः꣢ । सु꣣ह꣡स्ताः꣢ । सु꣣ । ह꣡स्ताः꣢꣯ ॥१३५७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में परमात्मा का विषय है।
(जागृविः) जागरूक, (विप्रः) विशेषरूप से पूर्णता प्रदान करनेवाला, (मतीनाम्) बुद्धियों के (ऋतम्) व्यापार को (पुनानः) पवित्र करनेवाला, (सोमः) सत्कर्मों की प्रेरणा देनेवाला परमेश्वर (चमूषु) आत्मा, मन, प्राण आदि में वा सूर्य, चन्द्र, भूमण्डल आदि लोकों में (आ असदत्) नियामकरूप से स्थित है, (यम्) जिस परमेश्वर को (निकामाः) निरन्तर पाने की लौ लगाये हुए, (रथिरासः) उत्कृष्ट शरीर-रथवाले, (सुहस्ताः) सिद्धहस्त (अध्वर्यवः) उपासना-यज्ञ के इच्छुक (मिथुनासः) स्त्री-पुरुष (सपन्ति) प्राप्त कर लेते हैं ॥१॥
शरीर और बाह्य जगत् का जो सञ्चालन करता है, उस जगदीश्वर की सबको भली-भाँति उपासना करनी चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ परमात्मविषयमाह।
(जागृविः) जागरूकः, (विप्रः) विशेषेण पूरकः, (मतीनाम्) बुद्धीनाम् (ऋतम्) व्यापारम्। [ऋ गतिप्रापणयोः, निष्ठायां रूपम्।] (पुनानः) पवित्रीकुर्वन्, (सोमः) सत्कर्मसु प्रेरकः परमेश्वरः (चमूषु) आत्ममनःप्राणादिषु सूर्यचन्द्रभूमण्डलादिषु वा लोकेषु (आ असदत्) नियामकत्वेन आनिषण्णोऽस्ति, (यम्) सोमं परमेश्वरम् (निकामाः) निरन्तरं कामयमानाः (रथिरासः) उत्कृष्टदेहरथवन्तः, (सुहस्ताः) सिद्धहस्ताः (अध्वर्यवः) उपासनायज्ञकामाः। [अध्वर्युः अध्वरयुः, अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयत इति वा। निरु० १।७।] (मिथुनासः) स्त्रीपुरुषाः (सपन्ति) प्राप्नुवन्ति। [षप समवाये, भ्वादिः। ‘सपतिः स्पृशतिकर्मा’ इति निरुक्तम्। (५।१६)] ॥१॥
देहस्य बाह्यजगतश्च सञ्चालनं यः करोति स जगदीश्वरः सर्वैः समुपासनीयः ॥१॥